Udyoga Parva, Adhyaya 185, Verse 1
ततो रात्र्यां व्यतीतायां प्रतिबुद्धोऽस्मि भारत
तं च संचिन्त्य वै स्वप्नमवापं हर्षमुत्तमम्
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो रात्र्यां व्यतीतायां प्रतिबुद्धोऽस्मि भारत
तं च संचिन्त्य वै स्वप्नमवापं हर्षमुत्तमम्
ततः समभवद्युद्धं मम तस्य च भारत
तुमुलं सर्वभूतानां लोमहर्षणमद्भुतम्
ततो बाणमयं वर्षं ववर्ष मयि भार्गवः
न्यवारयमहं तं च शरजालेन भारत
ततः परमसंक्रुद्धः पुनरेव महातपाः
ह्यस्तनेनैव कोपेन शक्तिं वै प्राहिणोन्मयि
इन्द्राशनिसमस्पर्शां यमदण्डोपमप्रभाम्
ज्वलन्तीमग्निवत्संख्ये लेलिहानां समन्ततः
ततो भरतशार्दूल धिष्ण्यमाकाशगं यथा
सा मामभ्यहनत्तूर्णमंसदेशे च भारत
अथासृङ्मेऽस्रवद्घोरं गिरेर्गैरिकधातुवत्
रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण
ततोऽहं जामदग्न्याय भृशं क्रोधसमन्वितः
प्रेषयं मृत्युसंकाशं बाणं सर्पविषोपमम्
स तेनाभिहतो वीरो ललाटे द्विजसत्तमः
अशोभत महाराज सशृङ्ग इव पर्वतः
स संरब्धः समावृत्य बाणं कालान्तकोपमम्
संदधे बलवत्कृष्य घोरं शत्रुनिबर्हणम्
स वक्षसि पपातोग्रः शरो व्याल इव श्वसन्
महीं राजंस्ततश्चाहमगच्छं रुधिराविलः
अवाप्य तु पुनः संज्ञां जामदग्न्याय धीमते
प्राहिण्वं विमलां शक्तिं ज्वलन्तीमशनीमिव
सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे
विह्वलश्चाभवद्राजन्वेपथुश्चैनमाविशत्
तत एनं परिष्वज्य सखा विप्रो महातपाः
अकृतव्रणः शुभैर्वाक्यैराश्वासयदनेकधा
समाश्वस्तस्तदा रामः क्रोधामर्षसमन्वितः
प्रादुश्चक्रे तदा ब्राह्मं परमास्त्रं महाव्रतः
ततस्तत्प्रतिघातार्थं ब्राह्ममेवास्त्रमुत्तमम्
मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत्
तयोर्ब्रह्मास्त्रयोरासीदन्तरा वै समागमः
असंप्राप्यैव रामं च मां च भारतसत्तम
ततो व्योम्नि प्रादुरभूत्तेज एव हि केवलम्
भूतानि चैव सर्वाणि जग्मुरार्तिं विशां पते
ऋषयश्च सगन्धर्वा देवताश्चैव भारत
संतापं परमं जग्मुरस्त्रतेजोभिपीडिताः
ततश्चचाल पृथिवी सपर्वतवनद्रुमा
संतप्तानि च भूतानि विषादं जग्मुरुत्तमम्
प्रजज्वाल नभो राजन्धूमायन्ते दिशो दश
न स्थातुमन्तरिक्षे च शेकुराकाशगास्तदा
ततो हाहाकृते लोके सदेवासुरराक्षसे
इदमन्तरमित्येव योक्तुकामोऽस्मि भारत
प्रस्वापमस्त्रं दयितं वचनाद्ब्रह्मवादिनाम्
चिन्तितं च तदस्त्रं मे मनसि प्रत्यभात्तदा