Mahabharata

Udyoga Parva, Adhyaya 184

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 184, Verse 1

ततोऽहं निशि राजेन्द्र प्रणम्य शिरसा तदा

ब्राह्मणानां पितॄणां च देवतानां च सर्वशः

Mahabharata

Udyoga Parva, Adhyaya 184, Verse 2

नक्तंचराणां भूतानां रजन्याश्च विशां पते

शयनं प्राप्य रहिते मनसा समचिन्तयम्

Mahabharata

Udyoga Parva, Adhyaya 184, Verse 3

जामदग्न्येन मे युद्धमिदं परमदारुणम्

अहानि सुबहून्यद्य वर्तते सुमहात्ययम्

Mahabharata

Udyoga Parva, Adhyaya 184, Verse 4

न च रामं महावीर्यं शक्नोमि रणमूर्धनि

विजेतुं समरे विप्रं जामदग्न्यं महाबलम्

Mahabharata

Udyoga Parva, Adhyaya 184, Verse 5

यदि शक्यो मया जेतुं जामदग्न्यः प्रतापवान्

दैवतानि प्रसन्नानि दर्शयन्तु निशां मम

Mahabharata

Udyoga Parva, Adhyaya 184, Verse 6

ततोऽहं निशि राजेन्द्र प्रसुप्तः शरविक्षतः

दक्षिणेनैव पार्श्वेन प्रभातसमये इव

Mahabharata

Udyoga Parva, Adhyaya 184, Verse 7

ततोऽहं विप्रमुख्यैस्तैर्यैरस्मि पतितो रथात्

उत्थापितो धृतश्चैव मा भैरिति च सान्त्वितः

Mahabharata

Udyoga Parva, Adhyaya 184, Verse 8

त एव मां महाराज स्वप्नदर्शनमेत्य वै

परिवार्याब्रुवन्वाक्यं तन्निबोध कुरूद्वह

Mahabharata

Udyoga Parva, Adhyaya 184, Verse 9

उत्तिष्ठ मा भैर्गाङ्गेय भयं ते नास्ति किंचन

रक्षामहे नरव्याघ्र स्वशरीरं हि नो भवान्

Mahabharata

Udyoga Parva, Adhyaya 184, Verse 10

न त्वां रामो रणे जेता जामदग्न्यः कथंचन

त्वमेव समरे रामं विजेता भरतर्षभ

Mahabharata

Udyoga Parva, Adhyaya 184, Verse 11

इदमस्त्रं सुदयितं प्रत्यभिज्ञास्यते भवान्

विदितं हि तवाप्येतत्पूर्वस्मिन्देहधारणे

Mahabharata

Udyoga Parva, Adhyaya 184, Verse 12

प्राजापत्यं विश्वकृतं प्रस्वापं नाम भारत

न हीदं वेद रामोऽपि पृथिव्यां वा पुमान्क्वचित्

Mahabharata

Udyoga Parva, Adhyaya 184, Verse 13

तत्स्मरस्व महाबाहो भृशं संयोजयस्व च

न च रामः क्षयं गन्ता तेनास्त्रेण नराधिप

Mahabharata

Udyoga Parva, Adhyaya 184, Verse 14

एनसा च न योगं त्वं प्राप्स्यसे जातु मानद

स्वप्स्यते जामदग्न्योऽसौ त्वद्बाणबलपीडितः

Mahabharata

Udyoga Parva, Adhyaya 184, Verse 15

ततो जित्वा त्वमेवैनं पुनरुत्थापयिष्यसि

अस्त्रेण दयितेनाजौ भीष्म संबोधनेन वै

Mahabharata

Udyoga Parva, Adhyaya 184, Verse 16

एवं कुरुष्व कौरव्य प्रभाते रथमास्थितः

प्रसुप्तं वा मृतं वापि तुल्यं मन्यामहे वयम्

Mahabharata

Udyoga Parva, Adhyaya 184, Verse 17

न च रामेण मर्तव्यं कदाचिदपि पार्थिव

ततः समुत्पन्नमिदं प्रस्वापं युज्यतामिति

Mahabharata

Udyoga Parva, Adhyaya 184, Verse 18

इत्युक्त्वान्तर्हिता राजन्सर्व एव द्विजोत्तमाः

अष्टौ सदृशरूपास्ते सर्वे भास्वरमूर्तयः