Mahabharata

Udyoga Parva, Adhyaya 183

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 1

ततः प्रभाते राजेन्द्र सूर्ये विमल उद्गते

भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 2

ततो भ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः

ववर्ष शरवर्षाणि मयि शक्र इवाचले

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 3

तेन सूतो मम सुहृच्छरवर्षेण ताडितः

निपपात रथोपस्थे मनो मम विषादयन्

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 4

ततः सूतः स मेऽत्यर्थं कश्मलं प्राविशन्महत्

पृथिव्यां च शराघातान्निपपात मुमोह च

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 5

ततः सूतोऽजहात्प्राणान्रामबाणप्रपीडितः

मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 6

ततः सूते हते राजन्क्षिपतस्तस्य मे शरान्

प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितान्

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 7

ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः

शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 8

स मे जत्र्वन्तरे राजन्निपत्य रुधिराशनः

मयैव सह राजेन्द्र जगाम वसुधातलम्

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 9

मत्वा तु निहतं रामस्ततो मां भरतर्षभ

मेघवद्व्यनदच्चोच्चैर्जहृषे च पुनः पुनः

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 10

तथा तु पतिते राजन्मयि रामो मुदा युतः

उदक्रोशन्महानादं सह तैरनुयायिभिः

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 11

मम तत्राभवन्ये तु कौरवाः पार्श्वतः स्थिताः

आगता ये च युद्धं तज्जनास्तत्र दिदृक्षवः

आर्तिं परमिकां जग्मुस्ते तदा मयि पातिते

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 12

ततोऽपश्यं पातितो राजसिंह; द्विजानष्टौ सूर्यहुताशनाभान्

ते मां समन्तात्परिवार्य तस्थुः; स्वबाहुभिः परिगृह्याजिमध्ये

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 13

रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम्

अन्तरिक्षे स्थितो ह्यस्मि तैर्विप्रैर्बान्धवैरिव

स्वपन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 14

ततस्ते ब्राह्मणा राजन्नब्रुवन्परिगृह्य माम्

मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत्

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 15

ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः

मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम्

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 16

हयाश्च मे संगृहीतास्तया वै; महानद्या संयति कौरवेन्द्र

पादौ जनन्याः प्रतिपूज्य चाहं; तथार्ष्टिषेणं रथमभ्यरोहम्

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 17

ररक्ष सा मम रथं हयांश्चोपस्कराणि च

तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम्

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 18

ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः

अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 19

ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम्

अमुञ्चं समरे बाणं रामाय हृदयच्छिदम्

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 20

ततो जगाम वसुधां बाणवेगप्रपीडितः

जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 21

ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे

आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 22

उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः

अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत्

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 23

ववुश्च वाताः परुषाश्चलिता च वसुंधरा

गृध्रा बडाश्च कङ्काश्च परिपेतुर्मुदा युताः

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 24

दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत्

अनाहता दुन्दुभयो विनेदुर्भृशनिस्वनाः

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 25

एतदौत्पातिकं घोरमासीद्भरतसत्तम

विसंज्ञकल्पे धरणीं गते रामे महात्मनि

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 26

ततो रविर्मन्दमरीचिमण्डलो; जगामास्तं पांसुपुञ्जावगाढः

निशा व्यगाहत्सुखशीतमारुता; ततो युद्धं प्रत्यवहारयावः

Mahabharata

Udyoga Parva, Adhyaya 183, Verse 27

एवं राजन्नवहारो बभूव; ततः पुनर्विमलेऽभूत्सुघोरम्

काल्यं काल्यं विंशतिं वै दिनानि; तथैव चान्यानि दिनानि त्रीणि