Mahabharata

Udyoga Parva, Adhyaya 182

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 182, Verse 1

समागतस्य रामेण पुनरेवातिदारुणम्

अन्येद्युस्तुमुलं युद्धं तदा भरतसत्तम

Mahabharata

Udyoga Parva, Adhyaya 182, Verse 2

ततो दिव्यास्त्रविच्छूरो दिव्यान्यस्त्राण्यनेकशः

अयोजयत धर्मात्मा दिवसे दिवसे विभुः

Mahabharata

Udyoga Parva, Adhyaya 182, Verse 3

तान्यहं तत्प्रतीघातैरस्त्रैरस्त्राणि भारत

व्यधमं तुमुले युद्धे प्राणांस्त्यक्त्वा सुदुस्त्यजान्

Mahabharata

Udyoga Parva, Adhyaya 182, Verse 4

अस्त्रैरस्त्रेषु बहुधा हतेष्वथ च भार्गवः

अक्रुध्यत महातेजास्त्यक्तप्राणः स संयुगे

Mahabharata

Udyoga Parva, Adhyaya 182, Verse 5

ततः शक्तिं प्राहिणोद्घोररूपा;मस्त्रै रुद्धो जामदग्न्यो महात्मा

कालोत्सृष्टां प्रज्वलितामिवोल्कां; संदीप्ताग्रां तेजसावृत्य लोकान्

Mahabharata

Udyoga Parva, Adhyaya 182, Verse 6

ततोऽहं तामिषुभिर्दीप्यमानैः; समायान्तीमन्तकालार्कदीप्ताम्

छित्त्वा त्रिधा पातयामास भूमौ; ततो ववौ पवनः पुण्यगन्धिः

Mahabharata

Udyoga Parva, Adhyaya 182, Verse 7

तस्यां छिन्नायां क्रोधदीप्तोऽथ रामः; शक्तीर्घोराः प्राहिणोद्द्वादशान्याः

तासां रूपं भारत नोत शक्यं; तेजस्वित्वाल्लाघवाच्चैव वक्तुम्

Mahabharata

Udyoga Parva, Adhyaya 182, Verse 8

किं त्वेवाहं विह्वलः संप्रदृश्य; दिग्भ्यः सर्वास्ता महोल्का इवाग्नेः

नानारूपास्तेजसोग्रेण दीप्ता; यथादित्या द्वादश लोकसंक्षये

Mahabharata

Udyoga Parva, Adhyaya 182, Verse 9

ततो जालं बाणमयं विवृत्य; संदृश्य भित्त्वा शरजालेन राजन्

द्वादशेषून्प्राहिणवं रणेऽहं; ततः शक्तीर्व्यधमं घोररूपाः

Mahabharata

Udyoga Parva, Adhyaya 182, Verse 10

ततोऽपरा जामदग्न्यो महात्मा; शक्तीर्घोराः प्राक्षिपद्धेमदण्डाः

विचित्रिताः काञ्चनपट्टनद्धा; यथा महोल्का ज्वलितास्तथा ताः

Mahabharata

Udyoga Parva, Adhyaya 182, Verse 11

ताश्चाप्युग्राश्चर्मणा वारयित्वा; खड्गेनाजौ पातिता मे नरेन्द्र

बाणैर्दिव्यैर्जामदग्न्यस्य संख्ये; दिव्यांश्चाश्वानभ्यवर्षं ससूतान्

Mahabharata

Udyoga Parva, Adhyaya 182, Verse 12

निर्मुक्तानां पन्नगानां सरूपा; दृष्ट्वा शक्तीर्हेमचित्रा निकृत्ताः

प्रादुश्चक्रे दिव्यमस्त्रं महात्मा; क्रोधाविष्टो हैहयेशप्रमाथी

Mahabharata

Udyoga Parva, Adhyaya 182, Verse 13

ततः श्रेण्यः शलभानामिवोग्राः; समापेतुर्विशिखानां प्रदीप्ताः

समाचिनोच्चापि भृशं शरीरं; हयान्सूतं सरथं चैव मह्यम्

Mahabharata

Udyoga Parva, Adhyaya 182, Verse 14

रथः शरैर्मे निचितः सर्वतोऽभू;त्तथा हयाः सारथिश्चैव राजन्

युगं रथेषा च तथैव चक्रे; तथैवाक्षः शरकृत्तोऽथ भग्नः

Mahabharata

Udyoga Parva, Adhyaya 182, Verse 15

ततस्तस्मिन्बाणवर्षे व्यतीते; शरौघेण प्रत्यवर्षं गुरुं तम्

स विक्षतो मार्गणैर्ब्रह्मराशि;र्देहादजस्रं मुमुचे भूरि रक्तम्

Mahabharata

Udyoga Parva, Adhyaya 182, Verse 16

यथा रामो बाणजालाभितप्त;स्तथैवाहं सुभृशं गाढविद्धः

ततो युद्धं व्यरमच्चापराह्णे; भानावस्तं प्रार्थयाने महीध्रम्