Udyoga Parva, Adhyaya 180, Verse 1
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्
भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्
भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः
आरोह स्यन्दनं वीर कवचं च महाभुज
बधान समरे राम यदि योद्धुं मयेच्छसि
ततो मामब्रवीद्रामः स्मयमानो रणाजिरे
रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत्
सूतो मे मातरिश्वा वै कवचं वेदमातरः
सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन
एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः
शरव्रातेन महता सर्वतः पर्यवारयत्
ततोऽपश्यं जामदग्न्यं रथे दिव्ये व्यवस्थितम्
सर्वायुधधरे श्रीमत्यद्भुतोपमदर्शने
मनसा विहिते पुण्ये विस्तीर्णे नगरोपमे
दिव्याश्वयुजि संनद्धे काञ्चनेन विभूषिते
ध्वजेन च महाबाहो सोमालंकृतलक्ष्मणा
धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान्
सारथ्यं कृतवांस्तत्र युयुत्सोरकृतव्रणः
सखा वेदविदत्यन्तं दयितो भार्गवस्य ह
आह्वयानः स मां युद्धे मनो हर्षयतीव मे
पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः
तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम्
क्षत्रियान्तकरं राममेकमेकः समासदम्
ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै
अवतीर्य धनुर्न्यस्य पदातिरृषिसत्तमम्
अभ्यगच्छं तदा राममर्चिष्यन्द्विजसत्तमम्
अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम्
योत्स्ये त्वया रणे राम विशिष्टेनाधिकेन च
गुरुणा धर्मशीलेन जयमाशास्स्व मे विभो
एवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता
धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम्
शपेयं त्वां न चेदेवमागच्छेथा विशां पते
युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव
न तु ते जयमाशासे त्वां हि जेतुमहं स्थितः
गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते
ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः
प्राध्मापयं रणे शङ्खं पुनर्हेमविभूषितम्
ततो युद्धं समभवन्मम तस्य च भारत
दिवसान्सुबहून्राजन्परस्परजिगीषया
स मे तस्मिन्रणे पूर्वं प्राहरत्कङ्कपत्रिभिः
षष्ट्या शतैश्च नवभिः शराणामग्निवर्चसाम्
चत्वारस्तेन मे वाहाः सूतश्चैव विशां पते
प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः
नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यश्च भारत
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्
आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि
भूयस्तु शृणु मे ब्रह्मन्संपदं धर्मसंग्रहे
ये ते वेदाः शरीरस्था ब्राह्मण्यं यच्च ते महत्
तपश्च सुमहत्तप्तं न तेभ्यः प्रहराम्यहम्
प्रहरे क्षत्रधर्मस्य यं त्वं राम समास्थितः
ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात्
पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं च मे
एष ते कार्मुकं वीर द्विधा कुर्मि ससायकम्
तस्याहं निशितं भल्लं प्राहिण्वं भरतर्षभ
तेनास्य धनुषः कोटिश्छिन्ना भूमिमथागमत्
नव चापि पृषत्कानां शतानि नतपर्वणाम्
प्राहिण्वं कङ्कपत्राणां जामदग्न्यरथं प्रति
काये विषक्तास्तु तदा वायुनाभिसमीरिताः
चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः
क्षतजोक्षितसर्वाङ्गः क्षरन्स रुधिरं व्रणैः
बभौ रामस्तदा राजन्मेरुर्धातूनिवोत्सृजन्