Mahabharata

Udyoga Parva, Adhyaya 179

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 1

ततो मामब्रवीद्रामः प्रहसन्निव भारत

दिष्ट्या भीष्म मया सार्धं योद्धुमिच्छसि संगरे

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 2

अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह

भाषितं तत्करिष्यामि तत्रागच्छेः परंतप

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 3

तत्र त्वां निहतं माता मया शरशताचितम्

जाह्नवी पश्यतां भीष्म गृध्रकङ्कबडाशनम्

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 4

कृपणं त्वामभिप्रेक्ष्य सिद्धचारणसेविता

मया विनिहतं देवी रोदतामद्य पार्थिव

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 5

अतदर्हा महाभागा भगीरथसुता नदी

या त्वामजीजनन्मन्दं युद्धकामुकमातुरम्

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 6

एहि गच्छ मया भीष्म युद्धमद्यैव वर्तताम्

गृहाण सर्वं कौरव्य रथादि भरतर्षभ

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 7

इति ब्रुवाणं तमहं रामं परपुरंजयम्

प्रणम्य शिरसा राजन्नेवमस्त्वित्यथाब्रुवम्

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 8

एवमुक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया

प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम्

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 9

ततः कृतस्वस्त्ययनो मात्रा प्रत्यभिनन्दितः

द्विजातीन्वाच्य पुण्याहं स्वस्ति चैव महाद्युते

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 10

रथमास्थाय रुचिरं राजतं पाण्डुरैर्हयैः

सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम्

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 11

उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम्

तत्कुलीनेन वीरेण हयशास्त्रविदा नृप

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 12

युक्तं सूतेन शिष्टेन बहुशो दृष्टकर्मणा

दंशितः पाण्डुरेणाहं कवचेन वपुष्मता

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 13

पाण्डुरं कार्मुकं गृह्य प्रायां भरतसत्तम

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 14

पाण्डुरैश्चामरैश्चापि वीज्यमानो नराधिप

शुक्लवासाः सितोष्णीषः सर्वशुक्लविभूषणः

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 15

स्तूयमानो जयाशीर्भिर्निष्क्रम्य गजसाह्वयात्

कुरुक्षेत्रं रणक्षेत्रमुपायां भरतर्षभ

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 16

ते हयाश्चोदितास्तेन सूतेन परमाहवे

अवहन्मां भृशं राजन्मनोमारुतरंहसः

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 17

गत्वाहं तत्कुरुक्षेत्रं स च रामः प्रतापवान्

युद्धाय सहसा राजन्पराक्रान्तौ परस्परम्

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 18

ततः संदर्शनेऽतिष्ठं रामस्यातितपस्विनः

प्रगृह्य शङ्खप्रवरं ततः प्राधममुत्तमम्

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 19

ततस्तत्र द्विजा राजंस्तापसाश्च वनौकसः

अपश्यन्त रणं दिव्यं देवाः सर्षिगणास्तदा

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 20

ततो दिव्यानि माल्यानि प्रादुरासन्मुहुर्मुहुः

वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 21

ततस्ते तापसाः सर्वे भार्गवस्यानुयायिनः

प्रेक्षकाः समपद्यन्त परिवार्य रणाजिरम्

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 22

ततो मामब्रवीद्देवी सर्वभूतहितैषिणी

माता स्वरूपिणी राजन्किमिदं ते चिकीर्षितम्

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 23

गत्वाहं जामदग्न्यं तं प्रयाचिष्ये कुरूद्वह

भीष्मेण सह मा योत्सीः शिष्येणेति पुनः पुनः

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 24

मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव

जामदग्न्येन समरे योद्धुमित्यवभर्त्सयत्

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 25

किं न वै क्षत्रियहरो हरतुल्यपराक्रमः

विदितः पुत्र रामस्ते यतस्त्वं योद्धुमिच्छसि

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 26

ततोऽहमब्रुवं देवीमभिवाद्य कृताञ्जलिः

सर्वं तद्भरतश्रेष्ठ यथावृत्तं स्वयंवरे

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 27

यथा च रामो राजेन्द्र मया पूर्वं प्रसादितः

काशिराजसुतायाश्च यथा कामः पुरातनः

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 28

ततः सा राममभ्येत्य जननी मे महानदी

मदर्थं तमृषिं देवी क्षमयामास भार्गवम्

भीष्मेण सह मा योत्सीः शिष्येणेति वचोऽब्रवीत्

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 29

स च तामाह याचन्तीं भीष्ममेव निवर्तय

न हि मे कुरुते काममित्यहं तमुपागमम्

Mahabharata

Udyoga Parva, Adhyaya 179, Verse 30

ततो गङ्गा सुतस्नेहाद्भीष्मं पुनरुपागमत्

न चास्याः सोऽकरोद्वाक्यं क्रोधपर्याकुलेक्षणः