Udyoga Parva, Adhyaya 177, Verse 1
एवमुक्तस्तदा रामो जहि भीष्ममिति प्रभो
उवाच रुदतीं कन्यां चोदयन्तीं पुनः पुनः
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तस्तदा रामो जहि भीष्ममिति प्रभो
उवाच रुदतीं कन्यां चोदयन्तीं पुनः पुनः
काश्ये कामं न गृह्णामि शस्त्रं वै वरवर्णिनि
ऋते ब्रह्मविदां हेतोः किमन्यत्करवाणि ते
वाचा भीष्मश्च शाल्वश्च मम राज्ञि वशानुगौ
भविष्यतोऽनवद्याङ्गि तत्करिष्यामि मा शुचः
न तु शस्त्रं ग्रहीष्यामि कथंचिदपि भामिनि
ऋते नियोगाद्विप्राणामेष मे समयः कृतः
मम दुःखं भगवता व्यपनेयं यतस्ततः
तत्तु भीष्मप्रसूतं मे तं जहीश्वर माचिरम्
काशिकन्ये पुनर्ब्रूहि भीष्मस्ते चरणावुभौ
शिरसा वन्दनार्होऽपि ग्रहीष्यति गिरा मम
जहि भीष्मं रणे राम मम चेदिच्छसि प्रियम्
प्रतिश्रुतं च यदि तत्सत्यं कर्तुमिहार्हसि
तयोः संवदतोरेवं राजन्रामाम्बयोस्तदा
अकृतव्रणो जामदग्न्यमिदं वचनमब्रवीत्
शरणागतां महाबाहो कन्यां न त्यक्तुमर्हसि
जहि भीष्मं रणे राम गर्जन्तमसुरं यथा
यदि भीष्मस्त्वयाहूतो रणे राम महामुने
निर्जितोऽस्मीति वा ब्रूयात्कुर्याद्वा वचनं तव
कृतमस्या भवेत्कार्यं कन्याया भृगुनन्दन
वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो
इयं चापि प्रतिज्ञा ते तदा राम महामुने
जित्वा वै क्षत्रियान्सर्वान्ब्राह्मणेषु प्रतिश्रुतम्
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव रणे यदि
ब्रह्मद्विड्भविता तं वै हनिष्यामीति भार्गव
शरणं हि प्रपन्नानां भीतानां जीवितार्थिनाम्
न शक्ष्यामि परित्यागं कर्तुं जीवन्कथंचन
यश्च क्षत्रं रणे कृत्स्नं विजेष्यति समागतम्
दृप्तात्मानमहं तं च हनिष्यामीति भार्गव
स एवं विजयी राम भीष्मः कुरुकुलोद्वहः
तेन युध्यस्व संग्रामे समेत्य भृगुनन्दन
स्मराम्यहं पूर्वकृतां प्रतिज्ञामृषिसत्तम
तथैव च करिष्यामि यथा साम्नैव लप्स्यते
कार्यमेतन्महद्ब्रह्मन्काशिकन्यामनोगतम्
गमिष्यामि स्वयं तत्र कन्यामादाय यत्र सः
यदि भीष्मो रणश्लाघी न करिष्यति मे वचः
हनिष्याम्येनमुद्रिक्तमिति मे निश्चिता मतिः
न हि बाणा मयोत्सृष्टाः सज्जन्तीह शरीरिणाम्
कायेषु विदितं तुभ्यं पुरा क्षत्रियसंगरे
एवमुक्त्वा ततो रामः सह तैर्ब्रह्मवादिभिः
प्रयाणाय मतिं कृत्वा समुत्तस्थौ महामनाः
ततस्ते तामुषित्वा तु रजनीं तत्र तापसाः
हुताग्नयो जप्तजप्याः प्रतस्थुर्मज्जिघांसया
अभ्यगच्छत्ततो रामः सह तैर्ब्राह्मणर्षभैः
कुरुक्षेत्रं महाराज कन्यया सह भारत
न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम्
तापसास्ते महात्मानो भृगुश्रेष्ठपुरस्कृताः