Udyoga Parva, Adhyaya 175, Verse 1
रामं द्रक्ष्यसि वत्से त्वं जामदग्न्यं महावने
उग्रे तपसि वर्तन्तं सत्यसंधं महाबलम्
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
रामं द्रक्ष्यसि वत्से त्वं जामदग्न्यं महावने
उग्रे तपसि वर्तन्तं सत्यसंधं महाबलम्
महेन्द्रे वै गिरिश्रेष्ठे रामं नित्यमुपासते
ऋषयो वेदविदुषो गन्धर्वाप्सरसस्तथा
तत्र गच्छस्व भद्रं ते ब्रूयाश्चैनं वचो मम
अभिवाद्य पूर्वं शिरसा तपोवृद्धं दृढव्रतम्
ब्रूयाश्चैनं पुनर्भद्रे यत्ते कार्यं मनीषितम्
मयि संकीर्तिते रामः सर्वं तत्ते करिष्यति
मम रामः सखा वत्से प्रीतियुक्तः सुहृच्च मे
जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः
एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने
अकृतव्रणः प्रादुरासीद्रामस्यानुचरः प्रियः
ततस्ते मुनयः सर्वे समुत्तस्थुः सहस्रशः
स च राजा वयोवृद्धः सृञ्जयो होत्रवाहनः
ततः पृष्ट्वा यथान्यायमन्योन्यं ते वनौकसः
सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम्
ततस्ते कथयामासुः कथास्तास्ता मनोरमाः
कान्ता दिव्याश्च राजेन्द्र प्रीतिहर्षमुदा युताः
ततः कथान्ते राजर्षिर्महात्मा होत्रवाहनः
रामं श्रेष्ठं महर्षीणामपृच्छदकृतव्रणम्
क्व संप्रति महाबाहो जामदग्न्यः प्रतापवान्
अकृतव्रण शक्यो वै द्रष्टुं वेदविदां वरः
भवन्तमेव सततं रामः कीर्तयति प्रभो
सृञ्जयो मे प्रियसखो राजर्षिरिति पार्थिव
इह रामः प्रभाते श्वो भवितेति मतिर्मम
द्रष्टास्येनमिहायान्तं तव दर्शनकाङ्क्षया
इयं च कन्या राजर्षे किमर्थं वनमागता
कस्य चेयं तव च का भवतीच्छामि वेदितुम्
दौहित्रीयं मम विभो काशिराजसुता शुभा
ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानघ
इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता
अम्बिकाम्बालिके त्वन्ये यवीयस्यौ तपोधन
समेतं पार्थिवं क्षत्रं काशिपुर्यां ततोऽभवत्
कन्यानिमित्तं ब्रह्मर्षे तत्रासीदुत्सवो महान्
ततः किल महावीर्यो भीष्मः शांतनवो नृपान्
अवाक्षिप्य महातेजास्तिस्रः कन्या जहार ताः
निर्जित्य पृथिवीपालानथ भीष्मो गजाह्वयम्
आजगाम विशुद्धात्मा कन्याभिः सह भारत
सत्यवत्यै निवेद्याथ विवाहार्थमनन्तरम्
भ्रातुर्विचित्रवीर्यस्य समाज्ञापयत प्रभुः
ततो वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम्
अब्रवीत्तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ
मया शाल्वपतिर्वीर मनसाभिवृतः पतिः
न मामर्हसि धर्मज्ञ परचित्तां प्रदापितुम्
तच्छ्रुत्वा वचनं भीष्मः संमन्त्र्य सह मन्त्रिभिः
निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः
अनुज्ञाता तु भीष्मेण शाल्वं सौभपतिं ततः
कन्येयं मुदिता विप्र काले वचनमब्रवीत्
विसर्जितास्मि भीष्मेण धर्मं मां प्रतिपादय
मनसाभिवृतः पूर्वं मया त्वं पार्थिवर्षभ
प्रत्याचख्यौ च शाल्वोऽपि चारित्रस्याभिशङ्कितः
सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम्
मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात्
अस्य दुःखस्य चोत्पत्तिं भीष्ममेवेह मन्यते
भगवन्नेवमेवैतद्यथाह पृथिवीपतिः
शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः
न ह्युत्सहे स्वनगरं प्रतियातुं तपोधन
अवमानभयाच्चैव व्रीडया च महामुने
यत्तु मां भगवान्रामो वक्ष्यति द्विजसत्तम
तन्मे कार्यतमं कार्यमिति मे भगवन्मतिः