Udyoga Parva, Adhyaya 174, Verse 1
ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा
तां कन्यां चिन्तयन्तो वै किं कार्यमिति धर्मिणः
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा
तां कन्यां चिन्तयन्तो वै किं कार्यमिति धर्मिणः
केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः
केचिदस्मदुपालम्भे मतिं चक्रुर्द्विजोत्तमाः
केचिच्छाल्वपतिं गत्वा नियोज्यमिति मेनिरे
नेति केचिद्व्यवस्यन्ति प्रत्याख्याता हि तेन सा
एवं गते किं नु शक्यं भद्रे कर्तुं मनीषिभिः
पुनरूचुश्च ते सर्वे तापसाः संशितव्रताः
अलं प्रव्रजितेनेह भद्रे शृणु हितं वचः
इतो गच्छस्व भद्रं ते पितुरेव निवेशनम्
प्रतिपत्स्यति राजा स पिता ते यदनन्तरम्
तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता
न च तेऽन्या गतिर्न्याय्या भवेद्भद्रे यथा पिता
पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनि
गतिः पतिः समस्थाया विषमे तु पिता गतिः
प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः
राजपुत्र्याः प्रकृत्या च कुमार्यास्तव भामिनि
भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि
आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गृहे
ततस्तु तेऽब्रुवन्वाक्यं ब्राह्मणास्तां तपस्विनीम्
त्वामिहैकाकिनीं दृष्ट्वा निर्जने गहने वने
प्रार्थयिष्यन्ति राजेन्द्रास्तस्मान्मैवं मनः कृथाः
न शक्यं काशिनगरीं पुनर्गन्तुं पितुर्गृहान्
अवज्ञाता भविष्यामि बान्धवानां न संशयः
उषिता ह्यन्यथा बाल्ये पितुर्वेश्मनि तापसाः
नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम
तपस्तप्तुमभीप्सामि तापसैः परिपालिता
यथा परेऽपि मे लोके न स्यादेवं महात्ययः
दौर्भाग्यं ब्राह्मणश्रेष्ठास्तस्मात्तप्स्याम्यहं तपः
इत्येवं तेषु विप्रेषु चिन्तयत्सु तथा तथा
राजर्षिस्तद्वनं प्राप्तस्तपस्वी होत्रवाहनः
ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम्
पूजाभिः स्वागताद्याभिरासनेनोदकेन च
तस्योपविष्टस्य ततो विश्रान्तस्योपशृण्वतः
पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः
अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत
स वेपमान उत्थाय मातुरस्याः पिता तदा
तां कन्यामङ्कमारोप्य पर्याश्वासयत प्रभो
स तामपृच्छत्कार्त्स्न्येन व्यसनोत्पत्तिमादितः
सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत्
ततः स राजर्षिरभूद्दुःखशोकसमन्वितः
कार्यं च प्रतिपेदे तन्मनसा सुमहातपाः
अब्रवीद्वेपमानश्च कन्यामार्तां सुदुःखितः
मा गाः पितृगृहं भद्रे मातुस्ते जनको ह्यहम्
दुःखं छेत्स्यामि तेऽहं वै मयि वर्तस्व पुत्रिके
पर्याप्तं ते मनः पुत्रि यदेवं परिशुष्यसि
गच्छ मद्वचनाद्रामं जामदग्न्यं तपस्विनम्
रामस्तव महद्दुःखं शोकं चापनयिष्यति
हनिष्यति रणे भीष्मं न करिष्यति चेद्वचः
तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम्
प्रतिष्ठापयिता स त्वां समे पथि महातपाः
ततस्तु सस्वरं बाष्पमुत्सृजन्ती पुनः पुनः
अब्रवीत्पितरं मातुः सा तदा होत्रवाहनम्
अभिवादयित्वा शिरसा गमिष्ये तव शासनात्
अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम्
कथं च तीव्रं दुःखं मे हनिष्यति स भार्गवः
एतदिच्छाम्यहं श्रोतुमथ यास्यामि तत्र वै