Mahabharata

Udyoga Parva, Adhyaya 173

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 173, Verse 1

सा निष्क्रमन्ती नगराच्चिन्तयामास भारत

पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया

बान्धवैर्विप्रहीनास्मि शाल्वेन च निराकृता

Mahabharata

Udyoga Parva, Adhyaya 173, Verse 2

न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम्

अनुज्ञातास्मि भीष्मेण शाल्वमुद्दिश्य कारणम्

Mahabharata

Udyoga Parva, Adhyaya 173, Verse 3

किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम्

आहोस्वित्पितरं मूढं यो मेऽकार्षीत्स्वयंवरम्

Mahabharata

Udyoga Parva, Adhyaya 173, Verse 4

ममायं स्वकृतो दोषो याहं भीष्मरथात्तदा

प्रवृत्ते वैशसे युद्धे शाल्वार्थं नापतं पुरा

तस्येयं फलनिर्वृत्तिर्यदापन्नास्मि मूढवत्

Mahabharata

Udyoga Parva, Adhyaya 173, Verse 5

धिग्भीष्मं धिक्च मे मन्दं पितरं मूढचेतसम्

येनाहं वीर्यशुल्केन पण्यस्त्रीवत्प्रवेरिता

Mahabharata

Udyoga Parva, Adhyaya 173, Verse 6

धिङ्मां धिक्शाल्वराजानं धिग्धातारमथापि च

येषां दुर्नीतभावेन प्राप्तास्म्यापदमुत्तमाम्

Mahabharata

Udyoga Parva, Adhyaya 173, Verse 7

सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः

अनयस्यास्य तु मुखं भीष्मः शांतनवो मम

Mahabharata

Udyoga Parva, Adhyaya 173, Verse 8

सा भीष्मे प्रतिकर्तव्यमहं पश्यामि सांप्रतम्

तपसा वा युधा वापि दुःखहेतुः स मे मतः

को नु भीष्मं युधा जेतुमुत्सहेत महीपतिः

Mahabharata

Udyoga Parva, Adhyaya 173, Verse 9

एवं सा परिनिश्चित्य जगाम नगराद्बहिः

आश्रमं पुण्यशीलानां तापसानां महात्मनाम्

ततस्तामवसद्रात्रिं तापसैः परिवारिता

Mahabharata

Udyoga Parva, Adhyaya 173, Verse 10

आचख्यौ च यथा वृत्तं सर्वमात्मनि भारत

विस्तरेण महाबाहो निखिलेन शुचिस्मिता

हरणं च विसर्गं च शाल्वेन च विसर्जनम्

Mahabharata

Udyoga Parva, Adhyaya 173, Verse 11

ततस्तत्र महानासीद्ब्राह्मणः संशितव्रतः

शैखावत्यस्तपोवृद्धः शास्त्रे चारण्यके गुरुः

Mahabharata

Udyoga Parva, Adhyaya 173, Verse 12

आर्तां तामाह स मुनिः शैखावत्यो महातपाः

निःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम्

Mahabharata

Udyoga Parva, Adhyaya 173, Verse 13

एवं गते किं नु भद्रे शक्यं कर्तुं तपस्विभिः

आश्रमस्थैर्महाभागैस्तपोनित्यैर्महात्मभिः

Mahabharata

Udyoga Parva, Adhyaya 173, Verse 14

सा त्वेनमब्रवीद्राजन्क्रियतां मदनुग्रहः

प्रव्राजितुमिहेच्छामि तपस्तप्स्यामि दुश्चरम्

Mahabharata

Udyoga Parva, Adhyaya 173, Verse 15

मयैवैतानि कर्माणि पूर्वदेहेषु मूढया

कृतानि नूनं पापानि तेषामेतत्फलं ध्रुवम्

Mahabharata

Udyoga Parva, Adhyaya 173, Verse 16

नोत्सहेयं पुनर्गन्तुं स्वजनं प्रति तापसाः

प्रत्याख्याता निरानन्दा शाल्वेन च निराकृता

Mahabharata

Udyoga Parva, Adhyaya 173, Verse 17

उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाः

युष्माभिर्देवसंकाशाः कृपा भवतु वो मयि

Mahabharata

Udyoga Parva, Adhyaya 173, Verse 18

स तामाश्वासयत्कन्यां दृष्टान्तागमहेतुभिः

सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह