Udyoga Parva, Adhyaya 172, Verse 1
ततोऽहं समनुज्ञाप्य कालीं सत्यवतीं तदा
मन्त्रिणश्च द्विजांश्चैव तथैव च पुरोहितान्
समनुज्ञासिषं कन्यां ज्येष्ठामम्बां नराधिप
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततोऽहं समनुज्ञाप्य कालीं सत्यवतीं तदा
मन्त्रिणश्च द्विजांश्चैव तथैव च पुरोहितान्
समनुज्ञासिषं कन्यां ज्येष्ठामम्बां नराधिप
अनुज्ञाता ययौ सा तु कन्या शाल्वपतेः पुरम्
वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा
अतीत्य च तमध्वानमाससाद नराधिपम्
सा तमासाद्य राजानं शाल्वं वचनमब्रवीत्
आगताहं महाबाहो त्वामुद्दिश्य महाद्युते
तामब्रवीच्छाल्वपतिः स्मयन्निव विशां पते
त्वयान्यपूर्वया नाहं भार्यार्थी वरवर्णिनि
गच्छ भद्रे पुनस्तत्र सकाशं भारतस्य वै
नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै
त्वं हि निर्जित्य भीष्मेण नीता प्रीतिमती तदा
परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन्
नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि
कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत्
नारीं विदितविज्ञानः परेषां धर्ममादिशन्
यथेष्टं गम्यतां भद्रे मा ते कालोऽत्यगादयम्
अम्बा तमब्रवीद्राजन्ननङ्गशरपीडिता
मैवं वद महीपाल नैतदेवं कथंचन
नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन
बलान्नीतास्मि रुदती विद्राव्य पृथिवीपतीन्
भजस्व मां शाल्वपते भक्तां बालामनागसम्
भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते
साहमामन्त्र्य गाङ्गेयं समरेष्वनिवर्तिनम्
अनुज्ञाता च तेनैव तवैव गृहमागता
न स भीष्मो महाबाहुर्मामिच्छति विशां पते
भ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया
भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप
प्रादाद्विचित्रवीर्याय गाङ्गेयो हि यवीयसे
यथा शाल्वपते नान्यं नरं ध्यामि कथंचन
त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे
न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थिता
सत्यं ब्रवीमि शाल्वैतत्सत्येनात्मानमालभे
भजस्व मां विशालाक्ष स्वयं कन्यामुपस्थिताम्
अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम्
तामेवं भाषमाणां तु शाल्वः काशिपतेः सुताम्
अत्यजद्भरतश्रेष्ठ त्वचं जीर्णामिवोरगः
एवं बहुविधैर्वाक्यैर्याच्यमानस्तयानघ
नाश्रद्दधच्छाल्वपतिः कन्याया भरतर्षभ
ततः सा मन्युनाविष्टा ज्येष्ठा काशिपतेः सुता
अब्रवीत्साश्रुनयना बाष्पविह्वलया गिरा
त्वया त्यक्ता गमिष्यामि यत्र यत्र विशां पते
तत्र मे सन्तु गतयः सन्तः सत्यं यथाब्रुवम्
एवं संभाषमाणां तु नृशंसः शाल्वराट्तदा
पर्यत्यजत कौरव्य करुणं परिदेवतीम्
गच्छ गच्छेति तां शाल्वः पुनः पुनरभाषत
बिभेमि भीष्मात्सुश्रोणि त्वं च भीष्मपरिग्रहः
एवमुक्ता तु सा तेन शाल्वेनादीर्घदर्शिना
निश्चक्राम पुराद्दीना रुदती कुररी यथा