Udyoga Parva, Adhyaya 171, Verse 1
ततोऽहं भरतश्रेष्ठ मातरं वीरमातरम्
अभिगम्योपसंगृह्य दाशेयीमिदमब्रुवम्
Containing 9 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततोऽहं भरतश्रेष्ठ मातरं वीरमातरम्
अभिगम्योपसंगृह्य दाशेयीमिदमब्रुवम्
इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान्
विचित्रवीर्यस्य कृते वीर्यशुल्का उपार्जिताः
ततो मूर्धन्युपाघ्राय पर्यश्रुनयना नृप
आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं त्वया
सत्यवत्यास्त्वनुमते विवाहे समुपस्थिते
उवाच वाक्यं सव्रीडा ज्येष्ठा काशिपतेः सुता
भीष्म त्वमसि धर्मज्ञः सर्वशास्त्रविशारदः
श्रुत्वा च धर्म्यं वचनं मह्यं कर्तुमिहार्हसि
मया शाल्वपतिः पूर्वं मनसाभिवृतो वरः
तेन चास्मि वृता पूर्वं रहस्यविदिते पितुः
कथं मामन्यकामां त्वं राजञ्शास्त्रमधीत्य वै
वासयेथा गृहे भीष्म कौरवः सन्विशेषतः
एतद्बुद्ध्या विनिश्चित्य मनसा भरतर्षभ
यत्क्षमं ते महाबाहो तदिहारब्धुमर्हसि
स मां प्रतीक्षते व्यक्तं शाल्वराजो विशां पते
कृपां कुरु महाबाहो मयि धर्मभृतां वर
त्वं हि सत्यव्रतो वीर पृथिव्यामिति नः श्रुतम्