Mahabharata

Udyoga Parva, Adhyaya 170

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 1

किमर्थं भरतश्रेष्ठ न हन्यास्त्वं शिखण्डिनम्

उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम्

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 2

पूर्वमुक्त्वा महाबाहो पाण्डवान्सह सोमकैः

वधिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामह

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 3

शृणु दुर्योधन कथां सहैभिर्वसुधाधिपैः

यदर्थं युधि संप्रेक्ष्य नाहं हन्यां शिखण्डिनम्

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 4

महाराजो मम पिता शंतनुर्भरतर्षभः

दिष्टान्तं प्राप धर्मात्मा समये पुरुषर्षभ

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 5

ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन्

चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यषेचयम्

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 6

तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः

विचित्रवीर्यं राजानमभ्यषिञ्चं यथाविधि

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 7

मयाभिषिक्तो राजेन्द्र यवीयानपि धर्मतः

विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 8

तस्य दारक्रियां तात चिकीर्षुरहमप्युत

अनुरूपादिव कुलादिति चिन्त्य मनो दधे

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 9

तथाश्रौषं महाबाहो तिस्रः कन्याः स्वयंवरे

रूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदा

अम्बा चैवाम्बिका चैव तथैवाम्बालिकापरा

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 10

राजानश्च समाहूताः पृथिव्यां भरतर्षभ

अम्बा ज्येष्ठाभवत्तासामम्बिका त्वथ मध्यमा

अम्बालिका च राजेन्द्र राजकन्या यवीयसी

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 11

सोऽहमेकरथेनैव गतः काशिपतेः पुरीम्

अपश्यं ता महाबाहो तिस्रः कन्याः स्वलंकृताः

राज्ञश्चैव समावृत्तान्पार्थिवान्पृथिवीपते

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 12

ततोऽहं तान्नृपान्सर्वानाहूय समरे स्थितान्

रथमारोपयां चक्रे कन्यास्ता भरतर्षभ

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 13

वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा

अवोचं पार्थिवान्सर्वानहं तत्र समागतान्

भीष्मः शांतनवः कन्या हरतीति पुनः पुनः

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 14

ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः

प्रसह्य हि नयाम्येष मिषतां वो नराधिपाः

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 15

ततस्ते पृथिवीपालाः समुत्पेतुरुदायुधाः

योगो योग इति क्रुद्धाः सारथींश्चाप्यचोदयन्

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 16

ते रथैर्मेघसंकाशैर्गजैश्च गजयोधिनः

पृष्ठ्यैश्चाश्वैर्महीपालाः समुत्पेतुरुदायुधाः

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 17

ततस्ते मां महीपालाः सर्व एव विशां पते

रथव्रातेन महता सर्वतः पर्यवारयन्

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 18

तानहं शरवर्षेण महता प्रत्यवारयम्

सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान्

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 19

तेषामापततां चित्रान्ध्वजान्हेमपरिष्कृतान्

एकैकेन हि बाणेन भूमौ पातितवानहम्

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 20

हयांश्चैषां गजांश्चैव सारथींश्चाप्यहं रणे

अपातयं शरैर्दीप्तैः प्रहसन्पुरुषर्षभ

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 21

ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम

अथाहं हास्तिनपुरमायां जित्वा महीक्षितः

Mahabharata

Udyoga Parva, Adhyaya 170, Verse 22

अतोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत

तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम्