Mahabharata

Udyoga Parva, Adhyaya 169

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 1

रोचमानो महाराज पाण्डवानां महारथः

योत्स्यतेऽमरवत्संख्ये परसैन्येषु भारत

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 2

पुरुजित्कुन्तिभोजश्च महेष्वासो महाबलः

मातुलो भीमसेनस्य स च मेऽतिरथो मतः

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 3

एष वीरो महेष्वासः कृती च निपुणश्च ह

चित्रयोधी च शक्तश्च मतो मे रथपुंगवः

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 4

स योत्स्यति हि विक्रम्य मघवानिव दानवैः

योधाश्चास्य परिख्याताः सर्वे युद्धविशारदाः

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 5

भागिनेयकृते वीरः स करिष्यति संगरे

सुमहत्कर्म पाण्डूनां स्थितः प्रियहिते नृपः

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 6

भैमसेनिर्महाराज हैडिम्बो राक्षसेश्वरः

मतो मे बहुमायावी रथयूथपयूथपः

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 7

योत्स्यते समरे तात मायाभिः समरप्रियः

ये चास्य राक्षसाः शूराः सचिवा वशवर्तिनः

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 8

एते चान्ये च बहवो नानाजनपदेश्वराः

समेताः पाण्डवस्यार्थे वासुदेवपुरोगमाः

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 9

एते प्राधान्यतो राजन्पाण्डवस्य महात्मनः

रथाश्चातिरथाश्चैव ये चाप्यर्धरथा मताः

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 10

नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप

महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 11

तैरहं समरे वीर त्वामायद्भिर्जयैषिभिः

योत्स्यामि जयमाकाङ्क्षन्नथ वा निधनं रणे

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 12

पार्थं च वासुदेवं च चक्रगाण्डीवधारिणौ

संध्यागताविवार्केन्दू समेष्ये पुरुषोत्तमौ

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 13

ये चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः

सहसैन्यानहं तांश्च प्रतीयां रणमूर्धनि

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 14

एते रथाश्चातिरथाश्च तुभ्यं; यथाप्रधानं नृप कीर्तिता मया

तथा राजन्नर्धरथाश्च केचि;त्तथैव तेषामपि कौरवेन्द्र

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 15

अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः

सर्वानावारयिष्यामि यावद्द्रक्ष्यामि भारत

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 16

पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम्

उद्यतेषुमभिप्रेक्ष्य प्रतियुध्यन्तमाहवे

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 17

लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया

प्राप्तं राज्यं परित्यज्य ब्रह्मचर्ये धृतव्रतः

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 18

चित्राङ्गदं कौरवाणामहं राज्येऽभ्यषेचयम्

विचित्रवीर्यं च शिशुं यौवराज्येऽभ्यषेचयम्

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 19

देवव्रतत्वं विख्याप्य पृथिव्यां सर्वराजसु

नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कथंचन

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 20

स हि स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः

कन्या भूत्वा पुमाञ्जातो न योत्स्ये तेन भारत

Mahabharata

Udyoga Parva, Adhyaya 169, Verse 21

सर्वांस्त्वन्यान्हनिष्यामि पार्थिवान्भरतर्षभ

यान्समेष्यामि समरे न तु कुन्तीसुतान्नृप