Udyoga Parva, Adhyaya 168, Verse 1
पाञ्चालराजस्य सुतो राजन्परपुरंजयः
शिखण्डी रथमुख्यो मे मतः पार्थस्य भारत
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
पाञ्चालराजस्य सुतो राजन्परपुरंजयः
शिखण्डी रथमुख्यो मे मतः पार्थस्य भारत
एष योत्स्यति संग्रामे नाशयन्पूर्वसंस्थितिम्
परं यशो विप्रथयंस्तव सेनासु भारत
एतस्य बहुलाः सेनाः पाञ्चालाश्च प्रभद्रकाः
तेनासौ रथवंशेन महत्कर्म करिष्यति
धृष्टद्युम्नश्च सेनानीः सर्वसेनासु भारत
मतो मेऽतिरथो राजन्द्रोणशिष्यो महारथः
एष योत्स्यति संग्रामे सूदयन्वै परान्रणे
भगवानिव संक्रुद्धः पिनाकी युगसंक्षये
एतस्य तद्रथानीकं कथयन्ति रणप्रियाः
बहुत्वात्सागरप्रख्यं देवानामिव संयुगे
क्षत्रधर्मा तु राजेन्द्र मतो मेऽर्धरथो नृप
धृष्टद्युम्नस्य तनयो बाल्यान्नातिकृतश्रमः
शिशुपालसुतो वीरश्चेदिराजो महारथः
धृष्टकेतुर्महेष्वासः संबन्धी पाण्डवस्य ह
एष चेदिपतिः शूरः सह पुत्रेण भारत
महारथेनासुकरं महत्कर्म करिष्यति
क्षत्रधर्मरतो मह्यं मतः परपुरंजयः
क्षत्रदेवस्तु राजेन्द्र पाण्डवेषु रथोत्तमः
जयन्तश्चामितौजाश्च सत्यजिच्च महारथः
महारथा महात्मानः सर्वे पाञ्चालसत्तमाः
योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः
अजो भोजश्च विक्रान्तौ पाण्डवेषु महारथौ
पाण्डवानां सहायार्थे परं शक्त्या यतिष्यतः
शीघ्रास्त्रौ चित्रयोद्धारौ कृतिनौ दृढविक्रमौ
केकयाः पञ्च राजेन्द्र भ्रातरो युद्धदुर्मदाः
सर्व एते रथोदाराः सर्वे लोहितकध्वजाः
काशिकः सुकुमारश्च नीलो यश्चापरो नृपः
सूर्यदत्तश्च शङ्खश्च मदिराश्वश्च नामतः
सर्व एते रथोदाराः सर्वे चाहवलक्षणाः
सर्वास्त्रविदुषः सर्वे महात्मानो मता मम
वार्धक्षेमिर्महाराज रथो मम महान्मतः
चित्रायुधश्च नृपतिर्मतो मे रथसत्तमः
स हि संग्रामशोभी च भक्तश्चापि किरीटिनः
चेकितानः सत्यधृतिः पाण्डवानां महारथौ
द्वाविमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम
व्याघ्रदत्तश्च राजेन्द्र चन्द्रसेनश्च भारत
मतौ मम रथोदारौ पाण्डवानां न संशयः
सेनाबिन्दुश्च राजेन्द्र क्रोधहन्ता च नामतः
यः समो वासुदेवेन भीमसेनेन चाभिभूः
स योत्स्यतीह विक्रम्य समरे तव सैनिकैः
मां द्रोणं च कृपं चैव यथा संमन्यते भवान्
तथा स समरश्लाघी मन्तव्यो रथसत्तमः
काश्यः परमशीघ्रास्त्रः श्लाघनीयो रथोत्तमः
रथ एकगुणो मह्यं मतः परपुरंजयः
अयं च युधि विक्रान्तो मन्तव्योऽष्टगुणो रथः
सत्यजित्समरश्लाघी द्रुपदस्यात्मजो युवा
गतः सोऽतिरथत्वं हि धृष्टद्युम्नेन संमितः
पाण्डवानां यशस्कामः परं कर्म करिष्यति
अनुरक्तश्च शूरश्च रथोऽयमपरो महान्
पाण्ड्यराजो महावीर्यः पाण्डवानां धुरंधरः
दृढधन्वा महेष्वासः पाण्डवानां रथोत्तमः
श्रेणिमान्कौरवश्रेष्ठ वसुदानश्च पार्थिवः
उभावेतावतिरथौ मतौ मम परंतप