Udyoga Parva, Adhyaya 167, Verse 1
द्रौपदेया महाराज सर्वे पञ्च महारथाः
वैराटिरुत्तरश्चैव रथो मम महान्मतः
Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.
द्रौपदेया महाराज सर्वे पञ्च महारथाः
वैराटिरुत्तरश्चैव रथो मम महान्मतः
अभिमन्युर्महाराज रथयूथपयूथपः
समः पार्थेन समरे वासुदेवेन वा भवेत्
लघ्वस्त्रश्चित्रयोधी च मनस्वी दृढविक्रमः
संस्मरन्वै परिक्लेशं स्वपितुर्विक्रमिष्यति
सात्यकिर्माधवः शूरो रथयूथपयूथपः
एष वृष्णिप्रवीराणाममर्षी जितसाध्वसः
उत्तमौजास्तथा राजन्रथो मम महान्मतः
युधामन्युश्च विक्रान्तो रथोदारो नरर्षभः
एतेषां बहुसाहस्रा रथा नागा हयास्तथा
योत्स्यन्ते ते तनुं त्यक्त्वा कुन्तीपुत्रप्रियेप्सया
पाण्डवैः सह राजेन्द्र तव सेनासु भारत
अग्निमारुतवद्राजन्नाह्वयन्तः परस्परम्
अजेयौ समरे वृद्धौ विराटद्रुपदावुभौ
महारथौ महावीर्यौ मतौ मे पुरुषर्षभौ
वयोवृद्धावपि तु तौ क्षत्रधर्मपरायणौ
यतिष्येते परं शक्त्या स्थितौ वीरगते पथि
संबन्धकेन राजेन्द्र तौ तु वीर्यबलान्वयात्
आर्यवृत्तौ महेष्वासौ स्नेहपाशसितावुभौ
कारणं प्राप्य तु नराः सर्व एव महाभुजाः
शूरा वा कातरा वापि भवन्ति नरपुंगव
एकायनगतावेतौ पार्थेन दृढभक्तिकौ
त्यक्त्वा प्राणान्परं शक्त्या घटितारौ नराधिप
पृथगक्षौहिणीभ्यां तावुभौ संयति दारुणौ
संबन्धिभावं रक्षन्तौ महत्कर्म करिष्यतः
लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत
प्रत्ययं परिरक्षन्तौ महत्कर्म करिष्यतः