Udyoga Parva, Adhyaya 166, Verse 1
समुद्यतोऽयं भारो मे सुमहान्सागरोपमः
धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
समुद्यतोऽयं भारो मे सुमहान्सागरोपमः
धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः
तस्मिन्नभ्यागते काले प्रतप्ते लोमहर्षणे
मिथोभेदो न मे कार्यस्तेन जीवसि सूतज
न ह्यहं नाद्य विक्रम्य स्थविरोऽपि शिशोस्तव
युद्धश्रद्धां रणे छिन्द्यां जीवितस्य च सूतज
जामदग्न्येन रामेण महास्त्राणि प्रमुञ्चता
न मे व्यथाभवत्काचित्त्वं तु मे किं करिष्यसि
कामं नैतत्प्रशंसन्ति सन्तोऽऽत्मबलसंस्तवम्
वक्ष्यामि तु त्वां संतप्तो निहीन कुलपांसन
समेतं पार्थिवं क्षत्रं काशिराज्ञः स्वयंवरे
निर्जित्यैकरथेनैव यत्कन्यास्तरसा हृताः
ईदृशानां सहस्राणि विशिष्टानामथो पुनः
मयैकेन निरस्तानि ससैन्यानि रणाजिरे
त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान्
उपस्थितो विनाशाय यतस्व पुरुषो भव
युध्यस्व पार्थं समरे येन विस्पर्धसे सह
द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात्सुदुर्मते
तमुवाच ततो राजा धार्तराष्ट्रो महामनाः
मामवेक्षस्व गाङ्गेय कार्यं हि महदुद्यतम्
चिन्त्यतामिदमेवाग्रे मम निःश्रेयसं परम्
उभावपि भवन्तौ मे महत्कर्म करिष्यतः
भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान्
ये चैवातिरथास्तत्र तथैव रथयूथपाः
बलाबलममित्राणां श्रोतुमिच्छामि कौरव
प्रभातायां रजन्यां वै इदं युद्धं भविष्यति
एते रथास्ते संख्यातास्तथैवातिरथा नृप
ये चाप्यर्धरथा राजन्पाण्डवानामतः शृणु
यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप
रथसंख्यां महाबाहो सहैभिर्वसुधाधिपैः
स्वयं राजा रथोदारः पाण्डवः कुन्तिनन्दनः
अग्निवत्समरे तात चरिष्यति न संशयः
भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसंमितः
नागायुतबलो मानी तेजसा न स मानुषः
माद्रीपुत्रौ तु रथिनौ द्वावेव पुरुषर्षभौ
अश्विनाविव रूपेण तेजसा च समन्वितौ
एते चमूमुखगताः स्मरन्तः क्लेशमात्मनः
रुद्रवत्प्रचरिष्यन्ति तत्र मे नास्ति संशयः
सर्व एव महात्मानः शालस्कन्धा इवोद्गताः
प्रादेशेनाधिकाः पुम्भिरन्यैस्ते च प्रमाणतः
सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः
चरितब्रह्मचर्याश्च सर्वे चातितपस्विनः
ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः
जवे प्रहारे संमर्दे सर्व एवातिमानुषाः
सर्वे जितमहीपाला दिग्जये भरतर्षभ
न चैषां पुरुषाः केचिदायुधानि गदाः शरान्
विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव
उद्यन्तुं वा गदां गुर्वीं शरान्वापि प्रकर्षितुम्
जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे
बालैरपि भवन्तस्तैः सर्व एव विशेषिताः
ते ते सैन्यं समासाद्य व्याघ्रा इव बलोत्कटाः
विध्वंसयिष्यन्ति रणे मा स्म तैः सह संगमः
एकैकशस्ते संग्रामे हन्युः सर्वान्महीक्षितः
प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत्
द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः
ते संस्मरन्तः संग्रामे विचरिष्यन्ति कालवत्
लोहिताक्षो गुडाकेशो नारायणसहायवान्
उभयोः सेनयोर्वीर रथो नास्तीह तादृशः
न हि देवेषु वा पूर्वं दानवेषूरगेषु वा
राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु
भूतोऽथ वा भविष्यो वा रथः कश्चिन्मया श्रुतः
समायुक्तो महाराज यथा पार्थस्य धीमतः