Udyoga Parva, Adhyaya 165, Verse 1
अचलो वृषकश्चैव भ्रातरौ सहितावुभौ
रथौ तव दुराधर्षौ शत्रून्विध्वंसयिष्यतः
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
अचलो वृषकश्चैव भ्रातरौ सहितावुभौ
रथौ तव दुराधर्षौ शत्रून्विध्वंसयिष्यतः
बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ
गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ
सखा ते दयितो नित्यं य एष रणकर्कशः
प्रोत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह
परुषः कत्थनो नीचः कर्णो वैकर्तनस्तव
मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः
एष नैव रथः पूर्णो नाप्येवातिरथो नृप
वियुक्तः कवचेनैष सहजेन विचेतनः
कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी
अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात्
करणानां वियोगाच्च तेन मेऽर्धरथो मतः
नैष फल्गुनमासाद्य पुनर्जीवन्विमोक्ष्यते
ततोऽब्रवीन्महाबाहुर्द्रोणः शस्त्रभृतां वरः
एवमेतद्यथात्थ त्वं न मिथ्यास्तीति किंचन
रणे रणेऽतिमानी च विमुखश्चैव दृश्यते
घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः
एतच्छ्रुत्वा तु राधेयः क्रोधादुत्फुल्ललोचनः
उवाच भीष्मं राजेन्द्र तुदन्वाग्भिः प्रतोदवत्
पितामह यथेष्टं मां वाक्शरैरुपकृन्तसि
अनागसं सदा द्वेषादेवमेव पदे पदे
मर्षयामि च तत्सर्वं दुर्योधनकृतेन वै
त्वं तु मां मन्यसेऽशक्तं यथा कापुरुषं तथा
भवानर्धरथो मह्यं मतो नास्त्यत्र संशयः
सर्वस्य जगतश्चैव गाङ्गेय न मृषा वदे
कुरूणामहितो नित्यं न च राजावबुध्यते
को हि नाम समानेषु राजसूदात्तकर्मसु
तेजोवधमिमं कुर्याद्विभेदयिषुराहवे
यथा त्वं गुणनिर्देशादपराधं चिकीर्षसि
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः
महारथत्वं संख्यातुं शक्यं क्षत्रस्य कौरव
बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः
धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाधिकाः
यथेच्छकं स्वयंग्राहाद्रथानतिरथांस्तथा
कामद्वेषसमायुक्तो मोहात्प्रकुरुते भवान्
दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम्
त्यज्यतां दुष्टभावोऽयं भीष्मः किल्बिषकृत्तव
भिन्ना हि सेना नृपते दुःसंधेया भवत्युत
मौलापि पुरुषव्याघ्र किमु नाना समुत्थिता
एषां द्वैधं समुत्पन्नं योधानां युधि भारत
तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः
रथानां क्व च विज्ञानं क्व च भीष्मोऽल्पचेतनः
अहमावारयिष्यामि पाण्डवानामनीकिनीम्
आसाद्य माममोघेषुं गमिष्यन्ति दिशो दश
पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव
क्व च युद्धविमर्दो वा मन्त्राः सुव्याहृतानि वा
क्व च भीष्मो गतवया मन्दात्मा कालमोहितः
स्पर्धते हि सदा नित्यं सर्वेण जगता सह
न चान्यं पुरुषं कंचिन्मन्यते मोघदर्शनः
श्रोतव्यं खलु वृद्धानामिति शास्त्रनिदर्शनम्
न त्वेवाप्यतिवृद्धानां पुनर्बाला हि ते मताः
अहमेको हनिष्यामि पाण्डवान्नात्र संशयः
सुयुद्धे राजशार्दूल यशो भीष्मं गमिष्यति
कृतः सेनापतिस्त्वेष त्वया भीष्मो नराधिप
सेनापतिं गुणो गन्ता न तु योधान्कथंचन
नाहं जीवति गाङ्गेये योत्स्ये राजन्कथंचन
हते तु भीष्मे योधास्मि सर्वैरेव महारथैः