Udyoga Parva, Adhyaya 164, Verse 1
शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप
प्रसज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप
प्रसज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः
एतस्य सैन्या दुर्धर्षाः समरेऽप्रतियायिनः
विकृतायुधभूयिष्ठा वायुवेगसमा जवे
द्रोणपुत्रो महेष्वासः सर्वेषामति धन्विनाम्
समरे चित्रयोधी च दृढास्त्रश्च महारथः
एतस्य हि महाराज यथा गाण्डीवधन्वनः
शरासनाद्विनिर्मुक्ताः संसक्ता यान्ति सायकाः
नैष शक्यो मया वीरः संख्यातुं रथसत्तमः
निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महायशाः
क्रोधस्तेजश्च तपसा संभृतोऽऽश्रमवासिना
द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः
दोषस्त्वस्य महानेको येनैष भरतर्षभ
न मे रथो नातिरथो मतः पार्थिवसत्तम
जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः
न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि
हन्यादेकरथेनैव देवानामपि वाहिनीम्
वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान्
असंख्येयगुणो वीरः प्रहर्ता दारुणद्युतिः
दण्डपाणिरिवासह्यः कालवत्प्रचरिष्यति
युगान्ताग्निसमः क्रोधे सिंहग्रीवो महामतिः
एष भारत युद्धस्य पृष्ठं संशमयिष्यति
पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः
रणे कर्म महत्कर्ता तत्र मे नास्ति संशयः
अस्त्रवेगानिलोद्धूतः सेनाकक्षेन्धनोत्थितः
पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति जये धृतः
रथयूथपयूथानां यूथपः स नरर्षभः
भारद्वाजात्मजः कर्ता कर्म तीव्रं हिताय वः
सर्वमूर्धाभिषिक्तानामाचार्यः स्थविरो गुरुः
गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनंजयः
नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम्
हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम्
श्लाघत्येष सदा वीरः पार्थस्य गुणविस्तरैः
पुत्रादभ्यधिकं चैव भारद्वाजोऽनुपश्यति
हन्यादेकरथेनैव देवगन्धर्वदानवान्
एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान्
पौरवो राजशार्दूलस्तव राजन्महारथः
मतो मम रथो वीर परवीररथारुजः
स्वेन सैन्येन सहितः प्रतपञ्शत्रुवाहिनीम्
प्रधक्ष्यति स पाञ्चालान्कक्षं कृष्णगतिर्यथा
सत्यव्रतो रथवरो राजपुत्रो महारथः
तव राजन्रिपुबले कालवत्प्रचरिष्यति
एतस्य योधा राजेन्द्र विचित्रकवचायुधाः
विचरिष्यन्ति संग्रामे निघ्नन्तः शात्रवांस्तव
वृषसेनो रथाग्र्यस्ते कर्णपुत्रो महारथः
प्रधक्ष्यति रिपूणां ते बलानि बलिनां वरः
जलसंधो महातेजा राजन्रथवरस्तव
त्यक्ष्यते समरे प्राणान्मागधः परवीरहा
एष योत्स्यति संग्रामे गजस्कन्धविशारदः
रथेन वा महाबाहुः क्षपयञ्शत्रुवाहिनीम्
रथ एष महाराज मतो मम नरर्षभः
त्वदर्थे त्यक्ष्यति प्राणान्सह सैन्यो महारणे
एष विक्रान्तयोधी च चित्रयोधी च संगरे
वीतभीश्चापि ते राजञ्शात्रवैः सह योत्स्यते
बाह्लीकोऽतिरथश्चैव समरे चानिवर्तिता
मम राजन्मतो युद्धे शूरो वैवस्वतोपमः
न ह्येष समरं प्राप्य निवर्तेत कथंचन
यथा सततगो राजन्नाभिहत्य परान्रणे
सेनापतिर्महाराज सत्यवांस्ते महारथः
रणेष्वद्भुतकर्मा च रथः पररथारुजः