Mahabharata

Udyoga Parva, Adhyaya 163

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 1

सुदक्षिणस्तु काम्बोजो रथ एकगुणो मतः

तवार्थसिद्धिमाकाङ्क्षन्योत्स्यते समरे परैः

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 2

एतस्य रथसिंहस्य तवार्थे राजसत्तम

पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 3

एतस्य रथवंशो हि तिग्मवेगप्रहारिणाम्

काम्बोजानां महाराज शलभानामिवायतिः

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 4

नीलो माहिष्मतीवासी नीलवर्मधरस्तव

रथवंशेन शत्रूणां कदनं वै करिष्यति

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 5

कृतवैरः पुरा चैव सहदेवेन पार्थिवः

योत्स्यते सततं राजंस्तवार्थे कुरुसत्तम

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 6

विन्दानुविन्दावावन्त्यौ समेतौ रथसत्तमौ

कृतिनौ समरे तात दृढवीर्यपराक्रमौ

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 7

एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः

गदाप्रासासिनाराचैस्तोमरैश्च भुजच्युतैः

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 8

युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ

यूथमध्ये महाराज विचरन्तौ कृतान्तवत्

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 9

त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम

कृतवैराश्च पार्थेन विराटनगरे तदा

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 10

मकरा इव राजेन्द्र समुद्धततरङ्गिणीम्

गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनीम्

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 11

ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम्

एते योत्स्यन्ति समरे संस्मरन्तः पुरा कृतम्

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 12

व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह

दिशो विजयता राजञ्श्वेतवाहेन भारत

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 13

ते हनिष्यन्ति पार्थानां समासाद्य महारथान्

वरान्वरान्महेष्वासान्क्षत्रियाणां धुरंधराः

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 14

लक्ष्मणस्तव पुत्रस्तु तथा दुःशासनस्य च

उभौ तौ पुरुषव्याघ्रौ संग्रामेष्वनिवर्तिनौ

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 15

तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ

युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 16

रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ

क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 17

दण्डधारो महाराज रथ एको नरर्षभः

योत्स्यते समरं प्राप्य स्वेन सैन्येन पालितः

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 18

बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः

रथो मम मतस्तात दृढवेगपराक्रमः

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 19

एष योत्स्यति संग्रामे स्वां चमूं संप्रहर्षयन्

उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 20

कृपः शारद्वतो राजन्रथयूथपयूथपः

प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपूंस्तव

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 21

गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः

कार्त्तिकेय इवाजेयः शरस्तम्बात्सुतोऽभवत्

Mahabharata

Udyoga Parva, Adhyaya 163, Verse 22

एष सेनां बहुविधां विविधायुधकार्मुकाम्

अग्निवत्समरे तात चरिष्यति विमर्दयन्