Mahabharata

Udyoga Parva, Adhyaya 162

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 1

प्रतिज्ञाते फल्गुनेन वधे भीष्मस्य संजय

किमकुर्वन्त मे मन्दाः पुत्रा दुर्योधनादयः

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 2

हतमेव हि पश्यामि गाङ्गेयं पितरं रणे

वासुदेवसहायेन पार्थेन दृढधन्वना

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 3

स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम्

किमुक्तवान्महेष्वासो भीष्मः प्रहरतां वरः

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 4

सेनापत्यं च संप्राप्य कौरवाणां धुरंधरः

किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 5

ततस्तत्संजयस्तस्मै सर्वमेव न्यवेदयत्

यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 6

सेनापत्यमनुप्राप्य भीष्मः शांतनवो नृप

दुर्योधनमुवाचेदं वचनं हर्षयन्निव

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 7

नमस्कृत्वा कुमाराय सेनान्ये शक्तिपाणये

अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 8

सेनाकर्मण्यभिज्ञोऽस्मि व्यूहेषु विविधेषु च

कर्म कारयितुं चैव भृतानप्यभृतांस्तथा

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 9

यात्रायानेषु युद्धेषु लब्धप्रशमनेषु च

भृशं वेद महाराज यथा वेद बृहस्पतिः

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 10

व्यूहानपि महारम्भान्दैवगान्धर्वमानुषान्

तैरहं मोहयिष्यामि पाण्डवान्व्येतु ते ज्वरः

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 11

सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम्

यथावच्छास्त्रतो राजन्व्येतु ते मानसो ज्वरः

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 12

न विद्यते मे गाङ्गेय भयं देवासुरेष्वपि

समस्तेषु महाबाहो सत्यमेतद्ब्रवीमि ते

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 13

किं पुनस्त्वयि दुर्धर्षे सेनापत्ये व्यवस्थिते

द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 14

भवद्भ्यां पुरुषाग्र्याभ्यां स्थिताभ्यां विजयो मम

न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम्

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 15

रथसंख्यां तु कार्त्स्न्येन परेषामात्मनस्तथा

तथैवातिरथानां च वेत्तुमिच्छामि कौरव

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 16

पितामहो हि कुशलः परेषामात्मनस्तथा

श्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपैः

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 17

गान्धारे शृणु राजेन्द्र रथसंख्यां स्वके बले

ये रथाः पृथिवीपाल तथैवातिरथाश्च ये

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 18

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च

रथानां तव सेनायां यथामुख्यं तु मे शृणु

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 19

भवानग्रे रथोदारः सह सर्वैः सहोदरैः

दुःशासनप्रभृतिभिर्भ्रातृभिः शतसंमितैः

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 20

सर्वे कृतप्रहरणाश्छेद्यभेद्यविशारदाः

रथोपस्थे गजस्कन्धे गदायुद्धेऽसिचर्मणि

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 21

संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः

इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 22

एते हनिष्यन्ति रणे पाञ्चालान्युद्धदुर्मदान्

कृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 23

ततोऽहं भरतश्रेष्ठ सर्वसेनापतिस्तव

शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान्

न त्वात्मनो गुणान्वक्तुमर्हामि विदितोऽस्मि ते

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 24

कृतवर्मा त्वतिरथो भोजः प्रहरतां वरः

अर्थसिद्धिं तव रणे करिष्यति न संशयः

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 25

अस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः

हनिष्यति रिपूंस्तुभ्यं महेन्द्रो दानवानिव

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 26

मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः

स्पर्धते वासुदेवेन यो वै नित्यं रणे रणे

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 27

भागिनेयान्निजांस्त्यक्त्वा शल्यस्ते रथसत्तमः

एष योत्स्यति संग्रामे कृष्णं चक्रगदाधरम्

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 28

सागरोर्मिसमैर्वेगैः प्लावयन्निव शात्रवान्

भूरिश्रवाः कृतास्त्रश्च तव चापि हितः सुहृत्

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 29

सौमदत्तिर्महेष्वासो रथयूथपयूथपः

बलक्षयममित्राणां सुमहान्तं करिष्यति

Mahabharata

Udyoga Parva, Adhyaya 162, Verse 30

सिन्धुराजो महाराज मतो मे द्विगुणो रथः

योत्स्यते समरे राजन्विक्रान्तो रथसत्तमः