Mahabharata

Udyoga Parva, Adhyaya 161

Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 161, Verse 1

उलूकस्य वचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः

सेनां निर्यापयामास धृष्टद्युम्नपुरोगमाम्

Mahabharata

Udyoga Parva, Adhyaya 161, Verse 2

पदातिनीं नागवतीं रथिनीमश्ववृन्दिनीम्

चतुर्विधबलां भीमामकम्प्यां पृथिवीमिव

Mahabharata

Udyoga Parva, Adhyaya 161, Verse 3

भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः

धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम्

Mahabharata

Udyoga Parva, Adhyaya 161, Verse 4

तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः

द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नः प्रकर्षति

Mahabharata

Udyoga Parva, Adhyaya 161, Verse 5

यथाबलं यथोत्साहं रथिनः समुपादिशत्

अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च

Mahabharata

Udyoga Parva, Adhyaya 161, Verse 6

अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे

सैन्धवाय च वार्ष्णेयं युयुधानमुपादिशत्

Mahabharata

Udyoga Parva, Adhyaya 161, Verse 7

शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत्

सहदेवं शकुनये चेकितानं शलाय च

Mahabharata

Udyoga Parva, Adhyaya 161, Verse 8

धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम्

द्रौपदेयांश्च पञ्चभ्यस्त्रिगर्तेभ्यः समादिशत्

Mahabharata

Udyoga Parva, Adhyaya 161, Verse 9

वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम्

समर्थं तं हि मेने वै पार्थादभ्यधिकं रणे

Mahabharata

Udyoga Parva, Adhyaya 161, Verse 10

एवं विभज्य योधांस्तान्पृथक्च सह चैव ह

ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत्

Mahabharata

Udyoga Parva, Adhyaya 161, Verse 11

धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः

विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः

Mahabharata

Udyoga Parva, Adhyaya 161, Verse 12

यथादिष्टान्यनीकानि पाण्डवानामयोजयत्

जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे