Udyoga Parva, Adhyaya 160, Verse 1
दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः
नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः
नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत
स केशवमभिप्रेक्ष्य गुडाकेशो महायशाः
अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम्
स्ववीर्यं यः समाश्रित्य समाह्वयति वै परान्
अभीतः पूरयञ्शक्तिं स वै पुरुष उच्यते
परवीर्यं समाश्रित्य यः समाह्वयते परान्
क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः
स त्वं परेषां वीर्येण मन्यसे वीर्यमात्मनः
स्वयं कापुरुषो मूढः परांश्च क्षेप्तुमिच्छसि
यस्त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम्
मरणाय महाबुद्धिं दीक्षयित्वा विकत्थसे
भावस्ते विदितोऽस्माभिर्दुर्बुद्धे कुलपांसन
न हनिष्यन्ति गाङ्गेयं पाण्डवा घृणयेति च
यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे
हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम्
कैतव्य गत्वा भरतान्समेत्य; सुयोधनं धार्तराष्ट्रं ब्रवीहि
तथेत्याह अर्जुनः सव्यसाची; निशाव्यपाये भविता विमर्दः
यद्वोऽब्रवीद्वाक्यमदीनसत्त्वो; मध्ये कुरूणां हर्षयन्सत्यसंधः
अहं हन्ता पाण्डवानामनीकं; शाल्वेयकांश्चेति ममैष भारः
हन्यामहं द्रोणमृते हि लोकं; न ते भयं विद्यते पाण्डवेभ्यः
ततो हि ते लब्धतमं च राज्यं; क्षयं गताः पाण्डवाश्चेति भावः
स दर्पपूर्णो न समीक्षसे त्व;मनर्थमात्मन्यपि वर्तमानम्
तस्मादहं ते प्रथमं समूहे; हन्ता समक्षं कुरुवृद्धमेव
सूर्योदये युक्तसेनः प्रतीक्ष्य; ध्वजी रथी रक्ष च सत्यसंधम्
अहं हि वः पश्यतां द्वीपमेनं; रथाद्भीष्मं पातयितास्मि बाणैः
श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः
अर्दितं शरजालेन मया दृष्ट्वा पितामहम्
यदुक्तश्च सभामध्ये पुरुषो ह्रस्वदर्शनः
क्रुद्धेन भीमसेनेन भ्राता दुःशासनस्तव
अधर्मज्ञो नित्यवैरी पापबुद्धिर्नृशंसकृत्
सत्यां प्रतिज्ञां नचिराद्रक्ष्यसे तां सुयोधन
अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा
नैष्ठुर्यस्यावलेपस्य आत्मसंभावनस्य च
नृशंसतायास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च
अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च
दर्शनस्य च वक्रस्य कृत्स्नस्यापनयस्य च
द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन
वासुदेवद्वितीये हि मयि क्रुद्धे नराधिप
आशा ते जीविते मूढ राज्ये वा केन हेतुना
शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते
निराशो जीविते राज्ये पुत्रेषु च भविष्यसि
भ्रातॄणां निधनं दृष्ट्वा पुत्राणां च सुयोधन
भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि
न द्वितीयां प्रतिज्ञां हि प्रतिज्ञास्यति केशवः
सत्यं ब्रवीम्यहं ह्येतत्सर्वं सत्यं भविष्यति
इत्युक्तः कैतवो राजंस्तद्वाक्यमुपधार्य च
अनुज्ञातो निववृते पुनरेव यथागतम्
उपावृत्य तु पाण्डुभ्यः कैतव्यो धृतराष्ट्रजम्
गत्वा यथोक्तं तत्सर्वमुवाच कुरुसंसदि
केशवार्जुनयोर्वाक्यं निशम्य भरतर्षभः
दुःशासनं च कर्णं च शकुनिं चाभ्यभाषत
आज्ञापयत राज्ञश्च बलं मित्रबलं तथा
यथा प्रागुदयात्सर्वा युक्ता तिष्ठत्यनीकिनी
ततः कर्णसमादिष्टा दूताः प्रत्वरिता रथैः
उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः
तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात्
आज्ञापयन्तो राज्ञस्तान्योगः प्रागुदयादिति