Mahabharata

Udyoga Parva, Adhyaya 157

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 157, Verse 1

हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु

दुर्योधनो महाराज कर्णेन सह भारत

Mahabharata

Udyoga Parva, Adhyaya 157, Verse 2

सौबलेन च राजेन्द्र तथा दुःशासनेन च

आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत्

Mahabharata

Udyoga Parva, Adhyaya 157, Verse 3

उलूक गच्छ कैतव्य पाण्डवान्सहसोमकान्

गत्वा मम वचो ब्रूहि वासुदेवस्य शृण्वतः

Mahabharata

Udyoga Parva, Adhyaya 157, Verse 4

इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम्

पाण्डवानां कुरूणां च युद्धं लोकभयंकरम्

Mahabharata

Udyoga Parva, Adhyaya 157, Verse 5

यदेतत्कत्थनावाक्यं संजयो महदब्रवीत्

मध्ये कुरूणां कौन्तेय तस्य कालोऽयमागतः

यथा वः संप्रतिज्ञातं तत्सर्वं क्रियतामिति

Mahabharata

Udyoga Parva, Adhyaya 157, Verse 6

अमर्षं राज्यहरणं वनवासं च पाण्डव

द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव

Mahabharata

Udyoga Parva, Adhyaya 157, Verse 7

यदर्थं क्षत्रिया सूते गर्भं तदिदमागतम्

बलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम्

पौरुषं दर्शयन्युद्धे कोपस्य कुरु निष्कृतिम्

Mahabharata

Udyoga Parva, Adhyaya 157, Verse 8

परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च

न स्फुटेद्धृदयं कस्य ऐश्वर्याद्भ्रंशितस्य च

Mahabharata

Udyoga Parva, Adhyaya 157, Verse 9

कुले जातस्य शूरस्य परवित्तेषु गृध्यतः

आच्छिन्नं राज्यमाक्रम्य कोपं कस्य न दीपयेत्

Mahabharata

Udyoga Parva, Adhyaya 157, Verse 10

यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम्

अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः

Mahabharata

Udyoga Parva, Adhyaya 157, Verse 11

अमित्राणां वशे स्थानं राज्यस्य च पुनर्भवः

द्वावर्थौ युध्यमानस्य तस्मात्कुरुत पौरुषम्

Mahabharata

Udyoga Parva, Adhyaya 157, Verse 12

अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्

अथ वा निहतोऽस्माभिर्वीरलोकं गमिष्यसि

Mahabharata

Udyoga Parva, Adhyaya 157, Verse 13

राष्ट्रात्प्रव्राजनं क्लेशं वनवासं च पाण्डव

कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव

Mahabharata

Udyoga Parva, Adhyaya 157, Verse 14

अप्रियाणां च वचने प्रव्रजत्सु पुनः पुनः

अमर्षं दर्शयाद्य त्वममर्षो ह्येव पौरुषम्

Mahabharata

Udyoga Parva, Adhyaya 157, Verse 15

क्रोधो बलं तथा वीर्यं ज्ञानयोगोऽस्त्रलाघवम्

इह ते पार्थ दृश्यन्तां संग्रामे पुरुषो भव

Mahabharata

Udyoga Parva, Adhyaya 157, Verse 16

तं च तूबरकं मूढं बह्वाशिनमविद्यकम्

उलूक मद्वचो ब्रूया असकृद्भीमसेनकम्

Mahabharata

Udyoga Parva, Adhyaya 157, Verse 17

अशक्तेनैव यच्छप्तं सभामध्ये वृकोदर

दुःशासनस्य रुधिरं पीयतां यदि शक्यते

Mahabharata

Udyoga Parva, Adhyaya 157, Verse 18

लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम्

पुष्टास्तेऽश्वा भृता योधाः श्वो युध्यस्व सकेशवः