Udyoga Parva, Adhyaya 156, Verse 1
तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ
किमकुर्वन्त कुरवः कालेनाभिप्रचोदिताः
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ
किमकुर्वन्त कुरवः कालेनाभिप्रचोदिताः
तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ
धृतराष्ट्रो महाराज संजयं वाक्यमब्रवीत्
एहि संजय मे सर्वमाचक्ष्वानवशेषतः
सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः
दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम्
यदहं जानमानोऽपि युद्धदोषान्क्षयोदयान्
तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम्
न शक्नोमि नियन्तुं वा कर्तुं वा हितमात्मनः
भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी
दुर्योधनं समासाद्य पुनः सा परिवर्तते
एवं गते वै यद्भावि तद्भविष्यति संजय
क्षत्रधर्मः किल रणे तनुत्यागोऽभिपूजितः
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि
न तु दुर्योधने दोषमिममासक्तुमर्हसि
शृणुष्वानवशेषेण वदतो मम पार्थिव
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः
एनसा न स दैवं वा कालं वा गन्तुमर्हति
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत्
स वध्यः सर्वलोकस्य निन्दितानि समाचरन्
निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया
अनुभूताः सहामात्यैर्निकृतैरधिदेवने
हयानां च गजानां च राज्ञां चामिततेजसाम्
वैशसं समरे वृत्तं यत्तन्मे शृणु सर्वशः
स्थिरो भूत्वा महाराज सर्वलोकक्षयोदयम्
यथाभूतं महायुद्धे श्रुत्वा मा विमना भव
न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः
अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत्
केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया
पूर्वकर्मभिरप्यन्ये त्रैधमेतद्विकृष्यते