Udyoga Parva, Adhyaya 154, Verse 1
आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम्
पितामहं भारतानां ध्वजं सर्वमहीक्षिताम्
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम्
पितामहं भारतानां ध्वजं सर्वमहीक्षिताम्
बृहस्पतिसमं बुद्ध्या क्षमया पृथिवीसमम्
समुद्रमिव गाम्भीर्ये हिमवन्तमिव स्थिरम्
प्रजापतिमिवौदार्ये तेजसा भास्करोपमम्
महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः
रणयज्ञे प्रतिभये स्वाभीले लोमहर्षणे
दीक्षितं चिररात्राय श्रुत्वा राजा युधिष्ठिरः
किमब्रवीन्महाबाहुः सर्वधर्मविशारदः
भीमसेनार्जुनौ वापि कृष्णो वा प्रत्यपद्यत
आपद्धर्मार्थकुशलो महाबुद्धिर्युधिष्ठिरः
सर्वान्भ्रातॄन्समानीय वासुदेवं च सात्वतम्
उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः
पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः
पितामहेन वो युद्धं पूर्वमेव भविष्यति
तस्मात्सप्तसु सेनासु प्रणेतॄन्मम पश्यत
यथार्हति भवान्वक्तुमस्मिन्काल उपस्थिते
तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ
रोचते मे महाबाहो क्रियतां यदनन्तरम्
नायकास्तव सेनायामभिषिच्यन्तु सप्त वै
ततो द्रुपदमानाय्य विराटं शिनिपुंगवम्
धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिवम्
शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम्
एतान्सप्त महेष्वासान्वीरान्युद्धाभिनन्दिनः
सेनाप्रणेतॄन्विधिवदभ्यषिञ्चद्युधिष्ठिरः
सर्वसेनापतिं चात्र धृष्टद्युम्नमुपादिशत्
द्रोणान्तहेतोरुत्पन्नो य इद्धाज्जातवेदसः
सर्वेषामेव तेषां तु समस्तानां महात्मनाम्
सेनापतिपतिं चक्रे गुडाकेशं धनंजयम्
अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम्
संकर्षणानुजः श्रीमान्महाबुद्धिर्जनार्दनः
तद्दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम्
प्राविशद्भवनं राज्ञः पाण्डवस्य हलायुधः
सहाक्रूरप्रभृतिभिर्गदसाम्बोल्मुकादिभिः
रौक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः
वृष्णिमुख्यैरभिगतैर्व्याघ्रैरिव बलोत्कटैः
अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः
नीलकौशेयवसनः कैलासशिखरोपमः
सिंहखेलगतिः श्रीमान्मदरक्तान्तलोचनः
तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः
उदतिष्ठत्तदा पार्थो भीमकर्मा वृकोदरः
गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन
पूजयां चक्रुरभ्येत्य ते स्म सर्वे हलायुधम्
ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना
वासुदेवपुरोगास्तु सर्व एवाभ्यवादयन्
विराटद्रुपदौ वृद्धावभिवाद्य हलायुधः
युधिष्ठिरेण सहित उपाविशदरिंदमः
ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः
वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत
भवितायं महारौद्रो दारुणः पुरुषक्षयः
दिष्टमेतद्ध्रुवं मन्ये न शक्यमतिवर्तितुम्
अस्माद्युद्धात्समुत्तीर्णानपि वः ससुहृज्जनान्
अरोगानक्षतैर्देहैः पश्येयमिति मे मतिः
समेतं पार्थिवं क्षत्रं कालपक्वमसंशयम्
विमर्दः सुमहान्भावी मांसशोणितकर्दमः
उक्तो मया वासुदेवः पुनः पुनरुपह्वरे
संबन्धिषु समां वृत्तिं वर्तस्व मधुसूदन
पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः
तस्यापि क्रियतां युक्त्या सपर्येति पुनः पुनः
तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः
निविष्टः सर्वभावेन धनंजयमवेक्ष्य च
ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः
तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत