Mahabharata

Udyoga Parva, Adhyaya 152

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 1

व्युषितायां रजन्यां तु राजा दुर्योधनस्ततः

व्यभजत्तान्यनीकानि दश चैकं च भारत

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 2

नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च

सर्वेष्वेतेष्वनीकेषु संदिदेश महीपतिः

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 3

सानुकर्षाः सतूणीराः सवरूथाः सतोमराः

सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सपोथिकाः

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 4

सध्वजाः सपताकाश्च सशरासनतोमराः

रज्जुभिश्च विचित्राभिः सपाशाः सपरिस्तराः

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 5

सकचग्रहविक्षेपाः सतैलगुडवालुकाः

साशीविषघटाः सर्वे ससर्जरसपांसवः

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 6

सघण्टाफलकाः सर्वे वासीवृक्षादनान्विताः

व्याघ्रचर्मपरीवारा वृताश्च द्वीपिचर्मभिः

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 7

सवस्तयः सशृङ्गाश्च सप्रासविविधायुधाः

सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 8

चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः

तथा कवचिनः शूराः शस्त्रेषु कृतनिश्रमाः

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 9

कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः

बद्धारिष्टा बद्धकक्ष्या बद्धध्वजपताकिनः

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 10

चतुर्युजो रथाः सर्वे सर्वे शस्त्रसमायुताः

संहृष्टवाहनाः सर्वे सर्वे शतशरासनाः

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 11

धुर्ययोर्हययोरेकस्तथान्यौ पार्ष्णिसारथी

तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 12

नगराणीव गुप्तानि दुरादेयानि शत्रुभिः

आसन्रथसहस्राणि हेममालीनि सर्वशः

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 13

यथा रथास्तथा नागा बद्धकक्ष्याः स्वलंकृताः

बभूवुः सप्त पुरुषा रत्नवन्त इवाद्रयः

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 14

द्वावङ्कुशधरौ तेषु द्वावुत्तमधनुर्धरौ

द्वौ वरासिधरौ राजन्नेकः शक्तिपताकधृक्

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 15

गजैर्मत्तैः समाकीर्णं सवर्मायुधकोशकैः

तद्बभूव बलं राजन्कौरव्यस्य सहस्रशः

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 16

विचित्रकवचामुक्तैः सपताकैः स्वलंकृतैः

सादिभिश्चोपसंपन्ना आसन्नयुतशो हयाः

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 17

सुसंग्राहाः सुसंतोषा हेमभाण्डपरिच्छदाः

अनेकशतसाहस्रास्ते च सादिवशे स्थिताः

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 18

नानारूपविकाराश्च नानाकवचशस्त्रिणः

पदातिनो नरास्तत्र बभूवुर्हेममालिनः

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 19

रथस्यासन्दश गजा गजस्य दश वाजिनः

नरा दश हयस्यासन्पादरक्षाः समन्ततः

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 20

रथस्य नागाः पञ्चाशन्नागस्यासञ्शतं हयाः

हयस्य पुरुषाः सप्त भिन्नसंधानकारिणः

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 21

सेना पञ्चशतं नागा रथास्तावन्त एव च

दशसेना च पृतना पृतना दशवाहिनी

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 22

वाहिनी पृतना सेना ध्वजिनी सादिनी चमूः

अक्षौहिणीति पर्यायैर्निरुक्ताथ वरूथिनी

एवं व्यूढान्यनीकानि कौरवेयेण धीमता

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 23

अक्षौहिण्यो दशैका च संख्याताः सप्त चैव ह

अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूद्बलम्

अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम्

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 24

नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते

सेनामुखं च तिस्रस्ता गुल्म इत्यभिसंज्ञितः

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 25

दश गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन्

दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 26

तत्र दुर्योधनो राजा शूरान्बुद्धिमतो नरान्

प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 27

पृथगक्षौहिणीनां च प्रणेतॄन्नरसत्तमान्

विधिपूर्वं समानीय पार्थिवानभ्यषेचयत्

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 28

कृपं द्रोणं च शल्यं च सैन्धवं च महारथम्

सुदक्षिणं च काम्बोजं कृतवर्माणमेव च

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 29

द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च

शकुनिं सौबलं चैव बाह्लीकं च महारथम्

Mahabharata

Udyoga Parva, Adhyaya 152, Verse 30

दिवसे दिवसे तेषां प्रतिवेलं च भारत

चक्रे स विविधाः संज्ञाः प्रत्यक्षं च पुनः पुनः