Mahabharata

Udyoga Parva, Adhyaya 151

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 1

वासुदेवस्य तद्वाक्यमनुस्मृत्य युधिष्ठिरः

पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽब्रवीदिदम्

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 2

अस्मिन्नभ्यागते काले किं च नः क्षममच्युत

कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 3

दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च

वासुदेव मतज्ञोऽसि मम सभ्रातृकस्य च

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 4

विदुरस्यापि ते वाक्यं श्रुतं भीष्मस्य चोभयोः

कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 5

सर्वमेतदतिक्रम्य विचार्य च पुनः पुनः

यन्नः क्षमं महाबाहो तद्ब्रवीह्यविचारयन्

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 6

श्रुत्वैतद्धर्मराजस्य धर्मार्थसहितं वचः

मेघदुन्दुभिनिर्घोषः कृष्णो वचनमब्रवीत्

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 7

उक्तवानस्मि यद्वाक्यं धर्मार्थसहितं हितम्

न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 8

न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा

मम वा भाषितं किंचित्सर्वमेवातिवर्तते

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 9

न स कामयते धर्मं न स कामयते यशः

जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 10

बन्धमाज्ञापयामास मम चापि सुयोधनः

न च तं लब्धवान्कामं दुरात्मा शासनातिगः

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 11

न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः

सर्वे तमनुवर्तन्ते ऋते विदुरमच्युत

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 12

शकुनिः सौबलश्चैव कर्णदुःशासनावपि

त्वय्ययुक्तान्यभाषन्त मूढा मूढममर्षणम्

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 13

किं च तेन मयोक्तेन यान्यभाषन्त कौरवाः

संक्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 14

न पार्थिवेषु सर्वेषु य इमे तव सैनिकाः

यत्पापं यन्न कल्याणं सर्वं तस्मिन्प्रतिष्ठितम्

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 15

न चापि वयमत्यर्थं परित्यागेन कर्हिचित्

कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम्

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 16

तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम्

अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 17

युधिष्ठिरस्त्वभिप्रायमुपलभ्य महीक्षिताम्

योगमाज्ञापयामास भीमार्जुनयमैः सह

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 18

ततः किलकिलाभूतमनीकं पाण्डवस्य ह

आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 19

अवध्यानां वधं पश्यन्धर्मराजो युधिष्ठिरः

निष्टनन्भीमसेनं च विजयं चेदमब्रवीत्

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 20

यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया

सोऽयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 21

यस्मिन्यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः

अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान्

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 22

कथं ह्यवध्यैः संग्रामः कार्यः सह भविष्यति

कथं हत्वा गुरून्वृद्धान्विजयो नो भविष्यति

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 23

तच्छ्रुत्वा धर्मराजस्य सव्यसाची परंतपः

यदुक्तं वासुदेवेन श्रावयामास तद्वचः

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 24

उक्तवान्देवकीपुत्रः कुन्त्याश्च विदुरस्य च

वचनं तत्त्वया राजन्निखिलेनावधारितम्

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 25

न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः

न चापि युक्तं कौन्तेय निवर्तितुमयुध्यतः

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 26

तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा

स्मयमानोऽब्रवीत्पार्थमेवमेतदिति ब्रुवन्

Mahabharata

Udyoga Parva, Adhyaya 151, Verse 27

ततस्ते धृतसंकल्पा युद्धाय सहसैनिकाः

पाण्डवेया महाराज तां रात्रिं सुखमावसन्