Mahabharata

Udyoga Parva, Adhyaya 150

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 1

युधिष्ठिरं सहानीकमुपयान्तं युयुत्सया

संनिविष्टं कुरुक्षेत्रे वासुदेवेन पालितम्

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 2

विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम्

केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम्

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 3

महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः

श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 4

एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन

संभ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 5

व्यथयेयुर्हि देवानां सेनामपि समागमे

पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 6

धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः

युयुधानश्च विक्रान्तो देवैरपि दुरासदः

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 7

एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन

कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम्

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 8

प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा

कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम्

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 9

अकृतेनैव कार्येण गतः पार्थानधोक्षजः

स एनान्मन्युनाविष्टो ध्रुवं वक्ष्यत्यसंशयम्

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 10

इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः

भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 11

अजातशत्रुरप्यद्य भीमार्जुनवशानुगः

निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 12

विराटद्रुपदौ चैव कृतवैरौ मया सह

तौ च सेनाप्रणेतारौ वासुदेववशानुगौ

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 13

भविता विग्रहः सोऽयं तुमुलो लोमहर्षणः

तस्मात्सांग्रामिकं सर्वं कारयध्वमतन्द्रिताः

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 14

शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः

सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 15

आसन्नजलकाष्ठानि शतशोऽथ सहस्रशः

अच्छेद्याहारमार्गाणि रत्नोच्चयचितानि च

विविधायुधपूर्णानि पताकाध्वजवन्ति च

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 16

समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः

प्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम्

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 17

ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा

हृष्टरूपा महात्मानो विनाशाय महीक्षिताम्

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 18

ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम्

आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 19

बाहून्परिघसंकाशान्संस्पृशन्तः शनैः शनैः

काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान्

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 20

उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैः

अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 21

ते रथान्रथिनः श्रेष्ठा हयांश्च हयकोविदाः

सज्जयन्ति स्म नागांश्च नागशिक्षासु निष्ठिताः

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 22

अथ वर्माणि चित्राणि काञ्चनानि बहूनि च

विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 23

पदातयश्च पुरुषाः शस्त्राणि विविधानि च

उपजह्रुः शरीरेषु हेमचित्राण्यनेकशः

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 24

तदुत्सव इवोदग्रं संप्रहृष्टनरावृतम्

नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम्

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 25

जनौघसलिलावर्तो रथनागाश्वमीनवान्

शङ्खदुन्दुभिनिर्घोषः कोशसंचयरत्नवान्

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 26

चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान्

प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः

Mahabharata

Udyoga Parva, Adhyaya 150, Verse 27

योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः

अदृश्यत तदा राजंश्चन्द्रोदय इवार्णवः