Udyoga Parva, Adhyaya 149, Verse 1
जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः
भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह
Containing 84 sacred Sanskrit shlokas with multi-author commentaries and translations.
जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः
भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह
श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि
केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम्
तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः
अक्षौहिण्यस्तु सप्तैताः समेता विजयाय वै
तासां मे पतयः सप्त विख्यातास्तान्निबोधत
द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ
सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान्
एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः
ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः
इष्वस्त्रकुशलाश्चैव तथा सर्वास्त्रयोधिनः
सप्तानामपि यो नेता सेनानां प्रविभागवित्
यः सहेत रणे भीष्मं शरार्चिःपावकोपमम्
त्वं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन
स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः
संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः
यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे
मत्स्यो विराटो बलवान्कृतास्त्रो युद्धदुर्मदः
प्रसहिष्यति संग्रामे भीष्मं तांश्च महारथान्
तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः
नकुलोऽनन्तरं तस्मादिदं वचनमाददे
वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च
ह्रीमान्कुलान्वितः श्रीमान्सर्वशास्त्रविशारदः
वेद चास्त्रं भरद्वाजाद्दुर्धर्षः सत्यसंगरः
यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम्
श्लाघ्यः पार्थिवसंघस्य प्रमुखे वाहिनीपतिः
पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः
यस्तताप तपो घोरं सदारः पृथिवीपतिः
रोषाद्द्रोणविनाशाय वीरः समितिशोभनः
पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः
श्वशुरो द्रुपदोऽस्माकं सेनामग्रे प्रकर्षतु
स द्रोणभीष्मावायान्तौ सहेदिति मतिर्मम
स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः
माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः
वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः
योऽयं तपःप्रभावेन ऋषिसंतोषणेन च
दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाबलः
धनुष्मान्कवची खड्गी रथमारुह्य दंशितः
दिव्यैर्हयवरैर्युक्तमग्निकुण्डात्समुत्थितः
गर्जन्निव महामेघो रथघोषेण वीर्यवान्
सिंहसंहननो वीरः सिंहविक्रान्तविक्रमः
सिंहोरस्को महाबाहुः सिंहवक्षा महाबलः
सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः
सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः
सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः
अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः
जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः
धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान्
वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव
यमदूतसमान्वेगे निपाते पावकोपमान्
रामेणाजौ विषहितान्वज्रनिष्पेषदारुणान्
पुरुषं तं न पश्यामि यः सहेत महाव्रतम्
धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः
क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम
अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः
वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः
वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः
यस्य संग्राममध्येषु दिव्यमस्त्रं विकुर्वतः
रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः