Udyoga Parva, Adhyaya 147, Verse 1
एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः
दुर्योधनमुवाचेदं नृपमध्ये जनाधिप
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः
दुर्योधनमुवाचेदं नृपमध्ये जनाधिप
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि पुत्रक
तथा तत्कुरु भद्रं ते यद्यस्ति पितृगौरवम्
सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः
सोमाद्बभूव षष्ठो वै ययातिर्नहुषात्मजः
तस्य पुत्रा बभूवुश्च पञ्च राजर्षिसत्तमाः
तेषां यदुर्महातेजा ज्येष्ठः समभवत्प्रभुः
पूरुर्यवीयांश्च ततो योऽस्माकं वंशवर्धनः
शर्मिष्ठायाः संप्रसूतो दुहितुर्वृषपर्वणः
यदुश्च भरतश्रेष्ठ देवयान्याः सुतोऽभवत्
दौहित्रस्तात शुक्रस्य काव्यस्यामिततेजसः
यादवानां कुलकरो बलवान्वीर्यसंमतः
अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः
न चातिष्ठत्पितुः शास्त्रे बलदर्पविमोहितः
अवमेने च पितरं भ्रातॄंश्चाप्यपराजितः
पृथिव्यां चतुरन्तायां यदुरेवाभवद्बली
वशे कृत्वा स नृपतीनवसन्नागसाह्वये
तं पिता परमक्रुद्धो ययातिर्नहुषात्मजः
शशाप पुत्रं गान्धारे राज्याच्च व्यपरोपयत्
य चैनमन्ववर्तन्त भ्रातरो बलदर्पितम्
शशाप तानपि क्रुद्धो ययातिस्तनयानथ
यवीयांसं ततः पूरुं पुत्रं स्ववशवर्तिनम्
राज्ये निवेशयामास विधेयं नृपसत्तमः
एवं ज्येष्ठोऽप्यथोत्सिक्तो न राज्यमभिजायते
यवीयांसोऽभिजायन्ते राज्यं वृद्धोपसेवया
तथैव सर्वधर्मज्ञः पितुर्मम पितामहः
प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः
तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः
त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः
देवापिरभवज्ज्येष्ठो बाह्लीकस्तदनन्तरम्
तृतीयः शंतनुस्तात धृतिमान्मे पितामहः
देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः
धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः
पौरजानपदानां च संमतः साधुसत्कृतः
सर्वेषां बालवृद्धानां देवापिर्हृदयंगमः
प्राज्ञश्च सत्यसंधश्च सर्वभूतहिते रतः
वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च
बाह्लीकस्य प्रियो भ्राता शंतनोश्च महात्मनः
सौभ्रात्रं च परं तेषां सहितानां महात्मनाम्
अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः
संभारानभिषेकार्थं कारयामास शास्त्रतः
मङ्गलानि च सर्वाणि कारयामास चाभिभूः
तं ब्राह्मणाश्च वृद्धाश्च पौरजानपदैः सह
सर्वे निवारयामासुर्देवापेरभिषेचनम्
स तच्छ्रुत्वा तु नृपतिरभिषेकनिवारणम्
अश्रुकण्ठोऽभवद्राजा पर्यशोचत चात्मजम्
एवं वदान्यो धर्मज्ञः सत्यसंधश्च सोऽभवत्
प्रियः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः
हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः
इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन्द्विजर्षभाः
ततः प्रव्यथितात्मासौ पुत्रशोकसमन्वितः
ममार तं मृतं दृष्ट्वा देवापिः संश्रितो वनम्
बाह्लीको मातुलकुले त्यक्त्वा राज्यं व्यवस्थितः
पितृभ्रातॄन्परित्यज्य प्राप्तवान्पुरमृद्धिमत्
बाह्लीकेन त्वनुज्ञातः शंतनुर्लोकविश्रुतः
पितर्युपरते राजन्राजा राज्यमकारयत्
तथैवाहं मतिमता परिचिन्त्येह पाण्डुना
ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्ग इति भारत
पाण्डुस्तु राज्यं संप्राप्तः कनीयानपि सन्नृपः
विनाशे तस्य पुत्राणामिदं राज्यमरिंदम
मय्यभागिनि राज्याय कथं त्वं राज्यमिच्छसि