Udyoga Parva, Adhyaya 146, Verse 1
भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत
मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत
मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः
प्रातीपः शंतनुस्तात कुलस्यार्थे यथोत्थितः
तथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत्
ततः पाण्डुर्नरपतिः सत्यसंधो जितेन्द्रियः
राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहितः
ज्येष्ठाय राज्यमददाद्धृतराष्ट्राय धीमते
यवीयसस्तथा क्षत्तुः कुरुवंशविवर्धनः
ततः सिंहासने राजन्स्थापयित्वैनमच्युतम्
वनं जगाम कौरव्यो भार्याभ्यां सहितोऽनघ
नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत्
प्रेष्यवत्पुरुषव्याघ्रो वालव्यजनमुत्क्षिपन्
ततः सर्वाः प्रजास्तात धृतराष्ट्रं जनेश्वरम्
अन्वपद्यन्त विधिवद्यथा पाण्डुं नराधिपम्
विसृज्य धृतराष्ट्राय राज्यं स विदुराय च
चचार पृथिवीं पाण्डुः सर्वां परपुरंजयः
कोशसंजनने दाने भृत्यानां चान्ववेक्षणे
भरणे चैव सर्वस्य विदुरः सत्यसंगरः
संधिविग्रहसंयुक्तो राज्ञः संवाहनक्रियाः
अवैक्षत महातेजा भीष्मः परपुरंजयः
सिंहासनस्थो नृपतिर्धृतराष्ट्रो महाबलः
अन्वास्यमानः सततं विदुरेण महात्मना
कथं तस्य कुले जातः कुलभेदं व्यवस्यसि
संभूय भ्रातृभिः सार्धं भुङ्क्ष्व भोगाञ्जनाधिप
ब्रवीम्यहं न कार्पण्यान्नार्थहेतोः कथंचन
भीष्मेण दत्तमश्नामि न त्वया राजसत्तम
नाहं त्वत्तोऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप
यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत्कुरु
दीयतां पाण्डुपुत्रेभ्यो राज्यार्धमरिकर्शन
सममाचार्यकं तात तव तेषां च मे सदा
अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम
बहुना किं प्रलापेन यतो धर्मस्ततो जयः
एवमुक्ते महाराज द्रोणेनामिततेजसा
व्याजहार ततो वाक्यं विदुरः सत्यसंगरः
पितुर्वदनमन्वीक्ष्य परिवृत्य च धर्मवित्
देवव्रत निबोधेदं वचनं मम भाषतः
प्रनष्टः कौरवो वंशस्त्वयायं पुनरुद्धृतः
तन्मे विलपमानस्य वचनं समुपेक्षसे
कोऽयं दुर्योधनो नाम कुलेऽस्मिन्कुलपांसनः
यस्य लोभाभिभूतस्य मतिं समनुवर्तसे
अनार्यस्याकृतज्ञस्य लोभोपहतचेतसः
अतिक्रामति यः शास्त्रं पितुर्धर्मार्थदर्शिनः
एते नश्यन्ति कुरवो दुर्योधनकृतेन वै
यथा ते न प्रणश्येयुर्महाराज तथा कुरु
मां चैव धृतराष्ट्रं च पूर्वमेव महाद्युते
चित्रकार इवालेख्यं कृत्वा मा स्म विनाशय
प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा
नोपेक्षस्व महाबाहो पश्यमानः कुलक्षयम्
अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते
वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह
बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम्
साध्विदं राज्यमद्यास्तु पाण्डवैरभिरक्षितम्
प्रसीद राजशार्दूल विनाशो दृश्यते महान्
पाण्डवानां कुरूणां च राज्ञां चामिततेजसाम्
विररामैवमुक्त्वा तु विदुरो दीनमानसः
प्रध्यायमानः स तदा निःश्वसंश्च पुनः पुनः
ततोऽथ राज्ञः सुबलस्य पुत्री; धर्मार्थयुक्तं कुलनाशभीता
दुर्योधनं पापमतिं नृशंसं; राज्ञां समक्षं सुतमाह कोपात्
ये पार्थिवा राजसभां प्रविष्टा; ब्रह्मर्षयो ये च सभासदोऽन्ये
शृण्वन्तु वक्ष्यामि तवापराधं; पापस्य सामात्यपरिच्छदस्य
राज्यं कुरूणामनुपूर्वभोग्यं; क्रमागतो नः कुलधर्म एषः
त्वं पापबुद्धेऽतिनृशंसकर्म;न्राज्यं कुरूणामनयाद्विहंसि
राज्ये स्थितो धृतराष्ट्रो मनीषी; तस्यानुजो विदुरो दीर्घदर्शी
एतावतिक्रम्य कथं नृपत्वं; दुर्योधन प्रार्थयसेऽद्य मोहात्