Udyoga Parva, Adhyaya 143, Verse 1
राधेयोऽहमाधिरथिः कर्णस्त्वामभिवादये
प्राप्ता किमर्थं भवती ब्रूहि किं करवाणि ते
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
राधेयोऽहमाधिरथिः कर्णस्त्वामभिवादये
प्राप्ता किमर्थं भवती ब्रूहि किं करवाणि ते
कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता
नासि सूतकुले जातः कर्ण तद्विद्धि मे वचः
कानीनस्त्वं मया जातः पूर्वजः कुक्षिणा धृतः
कुन्तिभोजस्य भवने पार्थस्त्वमसि पुत्रक
प्रकाशकर्मा तपनो योऽयं देवो विरोचनः
अजीजनत्त्वां मय्येष कर्ण शस्त्रभृतां वरम्
कुण्डली बद्धकवचो देवगर्भः श्रिया वृतः
जातस्त्वमसि दुर्धर्ष मया पुत्र पितुर्गृहे
स त्वं भ्रातॄनसंबुद्ध्वा मोहाद्यदुपसेवसे
धार्तराष्ट्रान्न तद्युक्तं त्वयि पुत्र विशेषतः
एतद्धर्मफलं पुत्र नराणां धर्मनिश्चये
यत्तुष्यन्त्यस्य पितरो माता चाप्येकदर्शिनी
अर्जुनेनार्जितां पूर्वं हृतां लोभादसाधुभिः
आच्छिद्य धार्तराष्ट्रेभ्यो भुङ्क्ष्व यौधिष्ठिरीं श्रियम्
अद्य पश्यन्तु कुरवः कर्णार्जुनसमागमम्
सौभ्रात्रेण तदालक्ष्य संनमन्तामसाधवः
कर्णार्जुनौ वै भवतां यथा रामजनार्दनौ
असाध्यं किं नु लोके स्याद्युवयोः सहितात्मनोः
कर्ण शोभिष्यसे नूनं पञ्चभिर्भ्रातृभिर्वृतः
वेदैः परिवृतो ब्रह्मा यथा वेदाङ्गपञ्चमैः
उपपन्नो गुणैः श्रेष्ठो ज्येष्ठः श्रेष्ठेषु बन्धुषु
सूतपुत्रेति मा शब्दः पार्थस्त्वमसि वीर्यवान्