Mahabharata

Udyoga Parva, Adhyaya 141

Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 1

केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम्

अब्रवीदभिसंपूज्य कृष्णं मधुनिषूदनम्

जानन्मां किं महाबाहो संमोहयितुमिच्छसि

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 2

योऽयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः

निमित्तं तत्र शकुनिरहं दुःशासनस्तथा

दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत्

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 3

असंशयमिदं कृष्ण महद्युद्धमुपस्थितम्

पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम्

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 4

राजानो राजपुत्राश्च दुर्योधनवशानुगाः

रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम्

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 5

स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन

निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 6

पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे

शंसन्त इव वार्ष्णेय विविधा लोमहर्षणाः

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 7

प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः

शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम्

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 8

कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदन

अनुराधां प्रार्थयते मैत्रं संशमयन्निव

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 9

नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम्

विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 10

सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपेष्यति

दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 11

निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः

पानीयं यवसं चापि नाभिनन्दन्ति माधव

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 12

प्रादुर्भूतेषु चैतेषु भयमाहुरुपस्थितम्

निमित्तेषु महाबाहो दारुणं प्राणिनाशनम्

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 13

अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते

वाजिनां वारणानां च मनुष्याणां च केशव

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 14

धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन

पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 15

प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते

प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम्

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 16

अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव

वाचश्चाप्यशरीरिण्यस्तत्पराभवलक्षणम्

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 17

मयूराः पुष्पशकुना हंसाः सारसचातकाः

जीवं जीवकसंघाश्चाप्यनुगच्छन्ति पाण्डवान्

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 18

गृध्राः काका बडाः श्येना यातुधानाः शलावृकाः

मक्षिकाणां च संघाता अनुगच्छन्ति कौरवान्

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 19

धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निस्वनः

अनाहताः पाण्डवानां नदन्ति पटहाः किल

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 20

उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा

धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम्

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 21

मांसशोणितवर्षं च वृष्टं देवेन माधव

तथा गन्धर्वनगरं भानुमन्तमुपस्थितम्

सप्राकारं सपरिखं सवप्रं चारुतोरणम्

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 22

कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति

उदयास्तमये संध्ये वेदयानो महद्भयम्

एका सृग्वाशते घोरं तत्पराभवलक्षणम्

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 23

कृष्णग्रीवाश्च शकुना लम्बमाना भयानकाः

संध्यामभिमुखा यान्ति तत्पराभवलक्षणम्

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 24

ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन

भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम्

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 25

पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा

आमपात्रप्रतीकाशा पश्चिमा मधुसूदन

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 26

प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव

महद्भयं वेदयन्ति तस्मिन्नुत्पातलक्षणे

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 27

सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः

अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 28

श्वेतोष्णीषाश्च दृश्यन्ते सर्वे ते शुक्लवाससः

आसनानि च शुभ्राणि सर्वेषामुपलक्षये

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 29

तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला

आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन

Mahabharata

Udyoga Parva, Adhyaya 141, Verse 30

अस्थिसंचयमारूढश्चामितौजा युधिष्ठिरः

सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम्