Udyoga Parva, Adhyaya 140, Verse 1
कर्णस्य वचनं श्रुत्वा केशवः परवीरहा
उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं तदा
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
कर्णस्य वचनं श्रुत्वा केशवः परवीरहा
उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं तदा
अपि त्वां न तपेत्कर्ण राज्यलाभोपपादना
मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि
ध्रुवो जयः पाण्डवानामितीदं; न संशयः कश्चन विद्यतेऽत्र
जयध्वजो दृश्यते पाण्डवस्य; समुच्छ्रितो वानरराज उग्रः
दिव्या माया विहिता भौवनेन; समुच्छ्रिता इन्द्रकेतुप्रकाशा
दिव्यानि भूतानि भयावहानि; दृश्यन्ति चैवात्र भयानकानि
न सज्जते शैलवनस्पतिभ्य; ऊर्ध्वं तिर्यग्योजनमात्ररूपः
श्रीमान्ध्वजः कर्ण धनंजयस्य; समुच्छ्रितः पावकतुल्यरूपः
यदा द्रक्ष्यसि संग्रामे श्वेताश्वं कृष्णसारथिम्
ऐन्द्रमस्त्रं विकुर्वाणमुभे चैवाग्निमारुते
गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः
न तदा भविता त्रेता न कृतं द्वापरं न च
यदा द्रक्ष्यसि संग्रामे कुन्तीपुत्रं युधिष्ठिरम्
जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम्
आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम्
न तदा भविता त्रेता न कृतं द्वापरं न च
यदा द्रक्ष्यसि संग्रामे भीमसेनं महाबलम्
दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे
प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम्
न तदा भविता त्रेता न कृतं द्वापरं न च
यदा द्रक्ष्यसि संग्रामे माद्रीपुत्रौ महारथौ
वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव
विगाढे शस्त्रसंपाते परवीररथारुजौ
न तदा भविता त्रेता न कृतं द्वापरं न च
यदा द्रक्ष्यसि संग्रामे द्रोणं शांतनवं कृपम्
सुयोधनं च राजानं सैन्धवं च जयद्रथम्
युद्धायापततस्तूर्णं वारितान्सव्यसाचिना
न तदा भविता त्रेता न कृतं द्वापरं न च
ब्रूयाः कर्ण इतो गत्वा द्रोणं शांतनवं कृपम्
सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः
पक्वौषधिवनस्फीतः फलवानल्पमक्षिकः
निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः
सप्तमाच्चापि दिवसादमावास्या भविष्यति
संग्रामं योजयेत्तत्र तां ह्याहुः शक्रदेवताम्
तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताः
यद्वो मनीषितं तद्वै सर्वं संपादयामि वः
राजानो राजपुत्राश्च दुर्योधनवशानुगाः
प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम्