Mahabharata

Udyoga Parva, Adhyaya 139

Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 1

असंशयं सौहृदान्मे प्रणयाच्चात्थ केशव

सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 2

सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः

निग्रहाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 3

कन्या गर्भं समाधत्त भास्करान्मां जनार्दन

आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत्

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 4

सोऽस्मि कृष्ण तथा जातः पाण्डोः पुत्रोऽस्मि धर्मतः

कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 5

सूतो हि मामधिरथो दृष्ट्वैव अनयद्गृहान्

राधायाश्चैव मां प्रादात्सौहार्दान्मधुसूदन

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 6

मत्स्नेहाच्चैव राधायाः सद्यः क्षीरमवातरत्

सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 7

तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम्

धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 8

तथा मामभिजानाति सूतश्चाधिरथः सुतम्

पितरं चाभिजानामि तमहं सौहृदात्सदा

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 9

स हि मे जातकर्मादि कारयामास माधव

शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 10

नाम मे वसुषेणेति कारयामास वै द्विजैः

भार्याश्चोढा मम प्राप्ते यौवने तेन केशव

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 11

तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन

तासु मे हृदयं कृष्ण संजातं कामबन्धनम्

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 12

न पृथिव्या सकलया न सुवर्णस्य राशिभिः

हर्षाद्भयाद्वा गोविन्द अनृतं वक्तुमुत्सहे

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 13

धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात्

मया त्रयोदश समा भुक्तं राज्यमकण्टकम्

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 14

इष्टं च बहुभिर्यज्ञैः सह सूतैर्मयासकृत्

आवाहाश्च विवाहाश्च सह सूतैः कृता मया

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 15

मां च कृष्ण समाश्रित्य कृतः शस्त्रसमुद्यमः

दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 16

तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत

वृतवान्परमं हृष्टः प्रतीपं सव्यसाचिनः

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 17

वधाद्बन्धाद्भयाद्वापि लोभाद्वापि जनार्दन

अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 18

यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना

अकीर्तिः स्याद्धृषीकेश मम पार्थस्य चोभयोः

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 19

असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन

सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 20

मन्त्रस्य नियमं कुर्यास्त्वमत्र पुरुषोत्तम

एतदत्र हितं मन्ये सर्वयादवनन्दन

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 21

यदि जानाति मां राजा धर्मात्मा संशितव्रतः

कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 22

प्राप्य चापि महद्राज्यं तदहं मधुसूदन

स्फीतं दुर्योधनायैव संप्रदद्यामरिंदम

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 23

स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः

नेता यस्य हृषीकेशो योद्धा यस्य धनंजयः

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 24

पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः

नकुलः सहदेवश्च द्रौपदेयाश्च माधव

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 25

उत्तमौजा युधामन्युः सत्यधर्मा च सोमकिः

चैद्यश्च चेकितानश्च शिखण्डी चापराजितः

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 26

इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा

इन्द्रायुधसवर्णश्च कुन्तिभोजो महारथः

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 27

मातुलो भीमसेनस्य सेनजिच्च महारथः

शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 28

महानयं कृष्ण कृतः क्षत्रस्य समुदानयः

राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 29

धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति

अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन

आध्वर्यवं च ते कृष्ण क्रतावस्मिन्भविष्यति

Mahabharata

Udyoga Parva, Adhyaya 139, Verse 30

होता चैवात्र बीभत्सुः संनद्धः स कपिध्वजः

गाण्डीवं स्रुक्तथाज्यं च वीर्यं पुंसां भविष्यति