Udyoga Parva, Adhyaya 138, Verse 1
राजपुत्रैः परिवृतस्तथामात्यैश्च संजय
उपारोप्य रथे कर्णं निर्यातो मधुसूदनः
Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.
राजपुत्रैः परिवृतस्तथामात्यैश्च संजय
उपारोप्य रथे कर्णं निर्यातो मधुसूदनः
किमब्रवीद्रथोपस्थे राधेयं परवीरहा
कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान्
ओघमेघस्वनः काले यत्कृष्णः कर्णमब्रवीत्
मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व संजय
आनुपूर्व्येण वाक्यानि श्लक्ष्णानि च मृदूनि च
प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च
हृदयग्रहणीयानि राधेयं मधुसूदनः
यान्यब्रवीदमेयात्मा तानि मे शृणु भारत
उपासितास्ते राधेय ब्राह्मणा वेदपारगाः
तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया
त्वमेव कर्ण जानासि वेदवादान्सनातनान्
त्वं ह्येव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः
कानीनश्च सहोढश्च कन्यायां यश्च जायते
वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः
सोऽसि कर्ण तथा जातः पाण्डोः पुत्रोऽसि धर्मतः
निग्रहाद्धर्मशास्त्राणामेहि राजा भविष्यसि
पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयः
द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ
मया सार्धमितो यातमद्य त्वां तात पाण्डवाः
अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात्
पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः
द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः
राजानो राजपुत्राश्च पाण्डवार्थे समागताः
पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः
हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा
ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः
राजन्या राजकन्याश्चाप्यानयन्त्वभिषेचनम्
षष्ठे च त्वां तथा काले द्रौपद्युपगमिष्यति
अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः
पुरोहितः पाण्डवानां व्याघ्रचर्मण्यवस्थितम्
तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः
द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा
अहं च त्वाभिषेक्ष्यामि राजानं पृथिवीपतिम्
युवराजोऽस्तु ते राजा कुन्तीपुत्रो युधिष्ठिरः
गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः
उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः
छत्रं च ते महच्छ्वेतं भीमसेनो महाबलः
अभिषिक्तस्य कौन्तेय कौन्तेयो धारयिष्यति
किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम्
रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति
अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति
नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये
पाञ्चालास्त्वानुयास्यन्ति शिखण्डी च महारथः
अहं च त्वानुयास्यामि सर्वे चान्धकवृष्णयः
दाशार्हाः परिवारास्ते दाशार्णाश्च विशां पते
भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः
जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः
पुरोगमाश्च ते सन्तु द्रविडाः सह कुन्तलैः
आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा
स्तुवन्तु त्वाद्य बहुशः स्तुतिभिः सूतमागधाः
विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः
स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः
प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय
मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा
सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः