Udyoga Parva, Adhyaya 137, Verse 1
एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः
संहत्य च भ्रुवोर्मध्यं न किंचिद्व्याजहार ह
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः
संहत्य च भ्रुवोर्मध्यं न किंचिद्व्याजहार ह
तं वै विमनसं दृष्ट्वा संप्रेक्ष्यान्योन्यमन्तिकात्
पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ
शुश्रूषुमनसूयं च ब्रह्मण्यं सत्यसंगरम्
प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम्
अश्वत्थाम्नि यथा पुत्रे भूयो मम धनंजये
बहुमानः परो राजन्संनतिश्च कपिध्वजे
तं चेत्पुत्रात्प्रियतरं प्रतियोत्स्ये धनंजयम्
क्षत्रधर्ममनुष्ठाय धिगस्तु क्षत्रजीविकाम्
यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः
मत्प्रसादात्स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः
मित्रध्रुग्दुष्टभावश्च नास्तिकोऽथानृजुः शठः
न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः
वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति
चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति
मिथ्योपचरिता ह्येते वर्तमाना ह्यनु प्रिये
अहितत्वाय कल्पन्ते दोषा भरतसत्तम
त्वमुक्तः कुरुवृद्धेन मया च विदुरेण च
वासुदेवेन च तथा श्रेयो नैवाभिपद्यसे
अस्ति मे बलमित्येव सहसा त्वं तितीर्षसि
सग्राहनक्रमकरं गङ्गावेगमिवोष्णगे
वास एव यथा हि त्वं प्रावृण्वानोऽद्य मन्यसे
स्रजं त्यक्तामिव प्राप्य लोभाद्यौधिष्ठिरीं श्रियम्
द्रौपदीसहितं पार्थं सायुधैर्भ्रातृभिर्वृतम्
वनस्थमपि राज्यस्थः पाण्डवं कोऽतिजीवति
निदेशे यस्य राजानः सर्वे तिष्ठन्ति किंकराः
तमैलविलमासाद्य धर्मराजो व्यराजत
कुबेरसदनं प्राप्य ततो रत्नान्यवाप्य च
स्फीतमाक्रम्य ते राष्ट्रं राज्यमिच्छन्ति पाण्डवाः
दत्तं हुतमधीतं च ब्राह्मणास्तर्पिता धनैः
आवयोर्गतमायुश्च कृतकृत्यौ च विद्धि नौ
त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च
विग्रहं पाण्डवैः कृत्वा महद्व्यसनमाप्स्यसि
द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी
तपोघोरव्रता देवी न त्वं जेष्यसि पाण्डवम्
मन्त्री जनार्दनो यस्य भ्राता यस्य धनंजयः
सर्वशस्त्रभृतां श्रेष्ठं कथं जेष्यसि पाण्डवम्
सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः
तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम्
पुनरुक्तं च वक्ष्यामि यत्कार्यं भूतिमिच्छता
सुहृदा मज्जमानेषु सुहृत्सु व्यसनार्णवे
अलं युद्धेन तैर्वीरैः शाम्य त्वं कुरुवृद्धये
मा गमः ससुतामात्यः सबलश्च पराभवम्