Mahabharata

Udyoga Parva, Adhyaya 135

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 1

अर्जुनं केशव ब्रूयास्त्वयि जाते स्म सूतके

उपोपविष्टा नारीभिराश्रमे परिवारिता

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 2

अथान्तरिक्षे वागासीद्दिव्यरूपा मनोरमा

सहस्राक्षसमः कुन्ति भविष्यत्येष ते सुतः

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 3

एष जेष्यति संग्रामे कुरून्सर्वान्समागतान्

भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 4

पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवस्पृशम्

हत्वा कुरून्ग्रामजन्ये वासुदेवसहायवान्

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 5

पित्र्यमंशं प्रनष्टं च पुनरप्युद्धरिष्यति

भ्रातृभिः सहितः श्रीमांस्त्रीन्मेधानाहरिष्यति

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 6

तं सत्यसंधं बीभत्सुं सव्यसाचिनमच्युत

यथाहमेवं जानामि बलवन्तं दुरासदम्

तथा तदस्तु दाशार्ह यथा वागभ्यभाषत

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 7

धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति

त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 8

नाहं तदभ्यसूयामि यथा वागभ्यभाषत

नमो धर्माय महते धर्मो धारयति प्रजाः

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 9

एतद्धनंजयो वाच्यो नित्योद्युक्तो वृकोदरः

यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः

न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 10

विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति

यावदन्तं न कुरुते शत्रूणां शत्रुकर्शनः

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 11

सर्वधर्मविशेषज्ञां स्नुषां पाण्डोर्महात्मनः

ब्रूया माधव कल्याणीं कृष्णां कृष्ण यशस्विनीम्

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 12

युक्तमेतन्महाभागे कुले जाते यशस्विनि

यन्मे पुत्रेषु सर्वेषु यथावत्त्वमवर्तिथाः

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 13

माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतावुभौ

विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 14

विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः

मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 15

यच्च वः प्रेक्षमाणानां सर्वधर्मोपचायिनी

पाञ्चाली परुषाण्युक्ता को नु तत्क्षन्तुमर्हति

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 16

न राज्यहरणं दुःखं द्यूते चापि पराजयः

प्रव्राजनं सुतानां वा न मे तद्दुःखकारणम्

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 17

यत्तु सा बृहती श्यामा सभायां रुदती तदा

अश्रौषीत्परुषा वाचस्तन्मे दुःखतरं मतम्

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 18

स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा

नाध्यगच्छत्तदा नाथं कृष्णा नाथवती सती

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 19

तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम्

अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 20

विदितौ हि तवात्यन्तं क्रुद्धाविव यमान्तकौ

भीमार्जुनौ नयेतां हि देवानपि परां गतिम्

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 21

तयोश्चैतदवज्ञानं यत्सा कृष्णा सभागता

दुःशासनश्च यद्भीमं कटुकान्यभ्यभाषत

पश्यतां कुरुवीराणां तच्च संस्मारयेः पुनः

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 22

पाण्डवान्कुशलं पृच्छेः सपुत्रान्कृष्णया सह

मां च कुशलिनीं ब्रूयास्तेषु भूयो जनार्दन

अरिष्टं गच्छ पन्थानं पुत्रान्मे परिपालय

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 23

अभिवाद्याथ तां कृष्णः कृत्वा चाभिप्रदक्षिणम्

निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 24

ततो विसर्जयामास भीष्मादीन्कुरुपुंगवान्

आरोप्य च रथे कर्णं प्रायात्सात्यकिना सह

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 25

ततः प्रयाते दाशार्हे कुरवः संगता मिथः

जजल्पुर्महदाश्चर्यं केशवे परमाद्भुतम्

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 26

प्रमूढा पृथिवी सर्वा मृत्युपाशसिता कृता

दुर्योधनस्य बालिश्यान्नैतदस्तीति चाब्रुवन्

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 27

ततो निर्याय नगरात्प्रययौ पुरुषोत्तमः

मन्त्रयामास च तदा कर्णेन सुचिरं सह

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 28

विसर्जयित्वा राधेयं सर्वयादवनन्दनः

ततो जवेन महता तूर्णमश्वानचोदयत्

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 29

ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः

हया जग्मुर्महावेगा मनोमारुतरंहसः

Mahabharata

Udyoga Parva, Adhyaya 135, Verse 30

ते व्यतीत्य तमध्वानं क्षिप्रं श्येना इवाशुगाः

उच्चैः सूर्यमुपप्लव्यं शार्ङ्गधन्वानमावहन्