Mahabharata

Udyoga Parva, Adhyaya 134

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 1

नैव राज्ञा दरः कार्यो जातु कस्यांचिदापदि

अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत्

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 2

दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते

राष्ट्रं बलममात्याश्च पृथक्कुर्वन्ति ते मतिम्

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 3

शत्रूनेके प्रपद्यन्ते प्रजहत्यपरे पुनः

अन्वेके प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 4

य एवात्यन्तसुहृदस्त एनं पर्युपासते

अशक्तयः स्वस्तिकामा बद्धवत्सा इडा इव

शोचन्तमनुशोचन्ति प्रतीतानिव बान्धवान्

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 5

अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः

ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः

मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 6

प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव

उल्लपन्त्या समाश्वासं बलवानिव दुर्बलम्

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 7

यद्येतत्संविजानासि यदि सम्यग्ब्रवीम्यहम्

कृत्वासौम्यमिवात्मानं जयायोत्तिष्ठ संजय

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 8

अस्ति नः कोशनिचयो महानविदितस्तव

तमहं वेद नान्यस्तमुपसंपादयामि ते

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 9

सन्ति नैकशता भूयः सुहृदस्तव संजय

सुखदुःखसहा वीर शतार्हा अनिवर्तिनः

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 10

तादृशा हि सहाया वै पुरुषस्य बुभूषतः

ईषदुज्जिहतः किंचित्सचिवाः शत्रुकर्शनाः

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 11

कस्य त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः

तमो न व्यपहन्येत सुचित्रार्थपदाक्षरम्

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 12

उदके धूरियं धार्या सर्तव्यं प्रवणे मया

यस्य मे भवती नेत्री भविष्यद्भूतदर्शिनी

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 13

अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम्

किंचित्किंचित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 14

अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात्

उद्यच्छाम्येष शत्रूणां नियमाय जयाय च

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 15

सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः

तच्चकार तथा सर्वं यथावदनुशासनम्

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 16

इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम्

राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम्

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 17

जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा

महीं विजयते क्षिप्रं श्रुत्वा शत्रूंश्च मर्दति

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 18

इदं पुंसवनं चैव वीराजननमेव च

अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 19

विद्याशूरं तपःशूरं दमशूरं तपस्विनम्

ब्राह्म्या श्रिया दीप्यमानं साधुवादेन संमतम्

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 20

अर्चिष्मन्तं बलोपेतं महाभागं महारथम्

धृष्टवन्तमनाधृष्यं जेतारमपराजितम्

Mahabharata

Udyoga Parva, Adhyaya 134, Verse 21

नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम्

तदर्थं क्षत्रिया सूते वीरं सत्यपराक्रमम्