Mahabharata

Udyoga Parva, Adhyaya 133

Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 1

कृष्णायसस्येव च ते संहत्य हृदयं कृतम्

मम मातस्त्वकरुणे वैरप्रज्ञे ह्यमर्षणे

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 2

अहो क्षत्रसमाचारो यत्र मामपरं यथा

ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम्

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 3

किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया

किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 4

सर्वारम्भा हि विदुषां तात धर्मार्थकारणात्

तानेवाभिसमीक्ष्याहं संजय त्वामचूचुदम्

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 5

स समीक्ष्यक्रमोपेतो मुख्यः कालोऽयमागतः

अस्मिंश्चेदागते काले कार्यं न प्रतिपद्यसे

असंभावितरूपस्त्वं सुनृशंसं करिष्यसि

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 6

तं त्वामयशसा स्पृष्टं न ब्रूयां यदि संजय

खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम्

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 7

सद्भिर्विगर्हितं मार्गं त्यज मूर्खनिषेवितम्

अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 8

तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः

धर्मार्थगुणयुक्तेन नेतरेण कथंचन

दैवमानुषयुक्तेन सद्भिराचरितेन च

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 9

यो ह्येवमविनीतेन रमते पुत्रनप्तृणा

अनुत्थानवता चापि मोघं तस्य प्रजाफलम्

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 10

अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च

सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 11

युद्धाय क्षत्रियः सृष्टः संजयेह जयाय च

क्रूराय कर्मणे नित्यं प्रजानां परिपालने

जयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम्

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 12

न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम्

यदमित्रान्वशे कृत्वा क्षत्रियः सुखमश्नुते

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 13

मन्युना दह्यमानेन पुरुषेण मनस्विना

निकृतेनेह बहुशः शत्रून्प्रतिजिगीषया

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 14

आत्मानं वा परित्यज्य शत्रून्वा विनिपात्य वै

अतोऽन्येन प्रकारेण शान्तिरस्य कुतो भवेत्

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 15

इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति

यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम्

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 16

प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम्

ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम्

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 17

नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः

कारुण्यमेवात्र पश्य भूत्वेह जडमूकवत्

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 18

अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि

चोद्यं मां चोदयस्येतद्भृशं वै चोदयामि ते

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 19

अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान्

अहं पश्यामि विजयं कृत्स्नं भाविनमेव ते

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 20

अकोशस्यासहायस्य कुतः स्विद्विजयो मम

इत्यवस्थां विदित्वेमामात्मनात्मनि दारुणाम्

राज्याद्भावो निवृत्तो मे त्रिदिवादिव दुष्कृतेः

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 21

ईदृशं भवती कंचिदुपायमनुपश्यति

तन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते

करिष्यामि हि तत्सर्वं यथावदनुशासनम्

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 22

पुत्रात्मा नावमन्तव्यः पूर्वाभिरसमृद्धिभिः

अभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 23

अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः

सर्वेषां कर्मणां तात फले नित्यमनित्यता

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 24

अनित्यमिति जानन्तो न भवन्ति भवन्ति च

अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 25

ऐकगुण्यमनीहायामभावः कर्मणां फलम्

अथ द्वैगुण्यमीहायां फलं भवति वा न वा

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 26

यस्य प्रागेव विदिता सर्वार्थानामनित्यता

नुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 27

उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु

भविष्यतीत्येव मनः कृत्वा सततमव्यथैः

मङ्गलानि पुरस्कृत्य ब्राह्मणैश्चेश्वरैः सह

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 28

प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक

अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 29

निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च

अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम्

पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि

Mahabharata

Udyoga Parva, Adhyaya 133, Verse 30

क्रुद्धाँल्लुब्धान्परिक्षीणानवक्षिप्तान्विमानितान्

स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय