Udyoga Parva, Adhyaya 131, Verse 1
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
विदुरायाश्च संवादं पुत्रस्य च परंतप
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
विदुरायाश्च संवादं पुत्रस्य च परंतप
अत्र श्रेयश्च भूयश्च यथा सा वक्तुमर्हति
यशस्विनी मन्युमती कुले जाता विभावरी
क्षत्रधर्मरता धन्या विदुरा दीर्घदर्शिनी
विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता
विदुरा नाम वै सत्या जगर्हे पुत्रमौरसम्
निर्जितं सिन्धुराजेन शयानं दीनचेतसम्
अनन्दनमधर्मज्ञं द्विषतां हर्षवर्धनम्
न मया त्वं न पित्रासि जातः क्वाभ्यागतो ह्यसि
निर्मन्युरुपशाखीयः पुरुषः क्लीबसाधनः
यावज्जीवं निराशोऽसि कल्याणाय धुरं वह
मात्मानमवमन्यस्व मैनमल्पेन बीभरः
मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंस्तभ
उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः
अमित्रान्नन्दयन्सर्वान्निर्मानो बन्धुशोकदः
सुपूरा वै कुनदिका सुपूरो मूषिकाञ्जलिः
सुसंतोषः कापुरुषः स्वल्पकेनापि तुष्यति
अप्यरेरारुजन्दंष्ट्रामाश्वेव निधनं व्रज
अपि वा संशयं प्राप्य जीवितेऽपि पराक्रम
अप्यरेः श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमन्
विनदन्वाथ वा तूष्णीं व्योम्नि वापरिशङ्कितः
त्वमेवं प्रेतवच्छेषे कस्माद्वज्रहतो यथा
उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः
मास्तं गमस्त्वं कृपणो विश्रूयस्व स्वकर्मणा
मा मध्ये मा जघन्ये त्वं माधो भूस्तिष्ठ चोर्जितः
अलातं तिन्दुकस्येव मुहूर्तमपि विज्वल
मा तुषाग्निरिवानर्चिः काकरङ्खा जिजीविषुः
मुहूर्तं ज्वलितं श्रेयो न तु धूमायितं चिरम्
मा ह स्म कस्यचिद्गेहे जनी राज्ञः खरीमृदुः
कृत्वा मानुष्यकं कर्म सृत्वाजिं यावदुत्तमम्
धर्मस्यानृण्यमाप्नोति न चात्मानं विगर्हते
अलब्ध्वा यदि वा लब्ध्वा नानुशोचन्ति पण्डिताः
आनन्तर्यं चारभते न प्राणानां धनायते
उद्भावयस्व वीर्यं वा तां वा गच्छ ध्रुवां गतिम्
धर्मं पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि
इष्टापूर्तं हि ते क्लीब कीर्तिश्च सकला हता
विच्छिन्नं भोगमूलं ते किंनिमित्तं हि जीवसि
शत्रुर्निमज्जता ग्राह्यो जङ्घायां प्रपतिष्यता
विपरिच्छिन्नमूलोऽपि न विषीदेत्कथंचन
उद्यम्य धुरमुत्कर्षेदाजानेयकृतं स्मरन्
कुरु सत्त्वं च मानं च विद्धि पौरुषमात्मनः
उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव हि
यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम्
राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान्
दाने तपसि शौर्ये च यस्य न प्रथितं यशः
विद्यायामर्थलाभे वा मातुरुच्चार एव सः
श्रुतेन तपसा वापि श्रिया वा विक्रमेण वा
जनान्योऽभिभवत्यन्यान्कर्मणा हि स वै पुमान्
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि
नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम्
यमेनमभिनन्देयुरमित्राः पुरुषं कृशम्
लोकस्य समवज्ञातं निहीनाशनवाससम्
अहोलाभकरं दीनमल्पजीवनमल्पकम्
नेदृशं बन्धुमासाद्य बान्धवः सुखमेधते
अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात्प्रवासिताः
सर्वकामरसैर्हीनाः स्थानभ्रष्टा अकिंचनाः
अवर्णकारिणं सत्सु कुलवंशस्य नाशनम्
कलिं पुत्रप्रवादेन संजय त्वामजीजनम्
निरमर्षं निरुत्साहं निर्वीर्यमरिनन्दनम्
मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम्
मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान्
ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम्
एतावानेव पुरुषो यदमर्षी यदक्षमी
क्षमावान्निरमर्षश्च नैव स्त्री न पुनः पुमान्