Udyoga Parva, Adhyaya 130, Verse 1
प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च
आचख्यौ तत्समासेन यद्वृत्तं कुरुसंसदि
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च
आचख्यौ तत्समासेन यद्वृत्तं कुरुसंसदि
उक्तं बहुविधं वाक्यं ग्रहणीयं सहेतुकम्
ऋषिभिश्च मया चैव न चासौ तद्गृहीतवान्
कालपक्वमिदं सर्वं दुर्योधनवशानुगम्
आपृच्छे भवतीं शीघ्रं प्रयास्ये पाण्डवान्प्रति
किं वाच्याः पाण्डवेयास्ते भवत्या वचनान्मया
तद्ब्रूहि त्वं महाप्राज्ञे शुश्रूषे वचनं तव
ब्रूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम्
भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः
अनुवाकहता बुद्धिर्धर्ममेवैकमीक्षते
अङ्गावेक्षस्व धर्मं त्वं यथा सृष्टः स्वयंभुवा
उरस्तः क्षत्रियः सृष्टो बाहुवीर्योपजीविता
क्रूराय कर्मणे नित्यं प्रजानां परिपालने
शृणु चात्रोपमामेकां या वृद्धेभ्यः श्रुता मया
मुचुकुन्दस्य राजर्षेरददात्पृथिवीमिमाम्
पुरा वैश्रवणः प्रीतो न चासौ तां गृहीतवान्
बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये
ततो वैश्रवणः प्रीतो विस्मितः समपद्यत
मुचुकुन्दस्ततो राजा सोऽन्वशासद्वसुंधराम्
बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः
चतुर्थं तस्य धर्मस्य राजा भारत विन्दति
राजा चरति चेद्धर्मं देवत्वायैव कल्पते
स चेदधर्मं चरति नरकायैव गच्छति
दण्डनीतिः स्वधर्मेण चातुर्वर्ण्यं नियच्छति
प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति
दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते
तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते
कालो वा कारणं राज्ञो राजा वा कालकारणम्
इति ते संशयो मा भूद्राजा कालस्य कारणम्
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च
युगस्य च चतुर्थस्य राजा भवति कारणम्
कृतस्य कारणाद्राजा स्वर्गमत्यन्तमश्नुते
त्रेतायाः कारणाद्राजा स्वर्गं नात्यन्तमश्नुते
प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते
ततो वसति दुष्कर्मा नरके शाश्वतीः समाः
राजदोषेण हि जगत्स्पृश्यते जगतः स च
राजधर्मानवेक्षस्व पितृपैतामहोचितान्
नैतद्राजर्षिवृत्तं हि यत्र त्वं स्थातुमिच्छसि
न हि वैक्लव्यसंसृष्ट आनृशंस्ये व्यवस्थितः
प्रजापालनसंभूतं किंचित्प्राप फलं नृपः
न ह्येतामाशिषं पाण्डुर्न चाहं न पितामहः
प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया
यज्ञो दानं तपः शौर्यं प्रजासंतानमेव च
माहात्म्यं बलमोजश्च नित्यमाशंसितं मया
नित्यं स्वाहा स्वधा नित्यं ददुर्मानुषदेवताः
दीर्घमायुर्धनं पुत्रान्सम्यगाराधिताः शुभाः
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च
दानमध्ययनं यज्ञं प्रजानां परिपालनम्
एतद्धर्ममधर्मं वा जन्मनैवाभ्यजायथाः
ते स्थ वैद्याः कुले जाता अवृत्त्या तात पीडिताः
यत्तु दानपतिं शूरं क्षुधिताः पृथिवीचराः
प्राप्य तृप्ताः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः
दानेनान्यं बलेनान्यं तथा सूनृतयापरम्
सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः
ब्राह्मणः प्रचरेद्भैक्षं क्षत्रियः परिपालयेत्
वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान्
भैक्षं विप्रतिषिद्धं ते कृषिर्नैवोपपद्यते
क्षत्रियोऽसि क्षतात्त्राता बाहुवीर्योपजीविता
पित्र्यमंशं महाबाहो निमग्नं पुनरुद्धर
साम्ना दानेन भेदेन दण्डेनाथ नयेन च