Mahabharata

Udyoga Parva, Adhyaya 128

Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 1

तत्तु वाक्यमनादृत्य सोऽर्थवन्मातृभाषितम्

पुनः प्रतस्थे संरम्भात्सकाशमकृतात्मनाम्

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 2

ततः सभाया निर्गम्य मन्त्रयामास कौरवः

सौबलेन मताक्षेण राज्ञा शकुनिना सह

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 3

दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च

दुःशासनचतुर्थानामिदमासीद्विचेष्टितम्

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 4

पुरायमस्मान्गृह्णाति क्षिप्रकारी जनार्दनः

सहितो धृतराष्ट्रेण राज्ञा शांतनवेन च

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 5

वयमेव हृषीकेशं निगृह्णीम बलादिव

प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनिं यथा

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 6

श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः

निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 7

अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च

अस्मिन्गृहीते वरदे ऋषभे सर्वसात्वताम्

निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 8

तस्माद्वयमिहैवैनं केशवं क्षिप्रकारिणम्

क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून्

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 9

तेषां पापमभिप्रायं पापानां दुष्टचेतसाम्

इङ्गितज्ञः कविः क्षिप्रमन्वबुध्यत सात्यकिः

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 10

तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः

अब्रवीत्कृतवर्माणं क्षिप्रं योजय वाहिनीम्

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 11

व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः

यावदाख्याम्यहं चैतत्कृष्णायाक्लिष्टकर्मणे

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 12

स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव

आचष्ट तमभिप्रायं केशवाय महात्मने

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 13

धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत

तेषामेतमभिप्रायमाचचक्षे स्मयन्निव

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 14

धर्मादपेतमर्थाच्च कर्म साधुविगर्हितम्

मन्दाः कर्तुमिहेच्छन्ति न चावाप्यं कथंचन

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 15

पुरा विकुर्वते मूढाः पापात्मानः समागताः

धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 16

इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः

पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 17

सात्यकेस्तद्वचः श्रुत्वा विदुरो दीर्घदर्शिवान्

धृतराष्ट्रं महाबाहुमब्रवीत्कुरुसंसदि

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 18

राजन्परीतकालास्ते पुत्राः सर्वे परंतप

अयशस्यमशक्यं च कर्म कर्तुं समुद्यताः

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 19

इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च

निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम्

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 20

इमं पुरुषशार्दूलमप्रधृष्यं दुरासदम्

आसाद्य न भविष्यन्ति पतंगा इव पावकम्

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 21

अयमिच्छन्हि तान्सर्वान्यतमानाञ्जनार्दनः

सिंहो मृगानिव क्रुद्धो गमयेद्यमसादनम्

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 22

न त्वयं निन्दितं कर्म कुर्यात्कृष्णः कथंचन

न च धर्मादपक्रामेदच्युतः पुरुषोत्तमः

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 23

विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत्

धृतराष्ट्रमभिप्रेक्ष्य सुहृदां शृण्वतां मिथः

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 24

राजन्नेते यदि क्रुद्धा मां निगृह्णीयुरोजसा

एते वा मामहं वैनाननुजानीहि पार्थिव

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 25

एतान्हि सर्वान्संरब्धान्नियन्तुमहमुत्सहे

न त्वहं निन्दितं कर्म कुर्यां पापं कथंचन

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 26

पाण्डवार्थे हि लुभ्यन्तः स्वार्थाद्धास्यन्ति ते सुताः

एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 27

अद्यैव ह्यहमेतांश्च ये चैताननु भारत

निगृह्य राजन्पार्थेभ्यो दद्यां किं दुष्कृतं भवेत्

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 28

इदं तु न प्रवर्तेयं निन्दितं कर्म भारत

संनिधौ ते महाराज क्रोधजं पापबुद्धिजम्

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 29

एष दुर्योधनो राजन्यथेच्छति तथास्तु तत्

अहं तु सर्वान्समयाननुजानामि भारत

Mahabharata

Udyoga Parva, Adhyaya 128, Verse 30

एतच्छ्रुत्वा तु विदुरं धृतराष्ट्रोऽभ्यभाषत

क्षिप्रमानय तं पापं राज्यलुब्धं सुयोधनम्