Udyoga Parva, Adhyaya 127, Verse 1
कृष्णस्य वचनं श्रुत्वा धृतराष्ट्रो जनेश्वरः
विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत
Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.
कृष्णस्य वचनं श्रुत्वा धृतराष्ट्रो जनेश्वरः
विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत
गच्छ तात महाप्राज्ञां गान्धारीं दीर्घदर्शिनीम्
आनयेह तया सार्धमनुनेष्यामि दुर्मतिम्
यदि सापि दुरात्मानं शमयेद्दुष्टचेतसम्
अपि कृष्णस्य सुहृदस्तिष्ठेम वचने वयम्
अपि लोभाभिभूतस्य पन्थानमनुदर्शयेत्
दुर्बुद्धेर्दुःसहायस्य समर्थं ब्रुवती वचः
अपि नो व्यसनं घोरं दुर्योधनकृतं महत्
शमयेच्चिररात्राय योगक्षेमवदव्ययम्
राज्ञस्तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम्
आनयामास गान्धारीं धृतराष्ट्रस्य शासनात्
एष गान्धारि पुत्रस्ते दुरात्मा शासनातिगः
ऐश्वर्यलोभादैश्वर्यं जीवितं च प्रहास्यति
अशिष्टवदमर्यादः पापैः सह दुरात्मभिः
सभाया निर्गतो मूढो व्यतिक्रम्य सुहृद्वचः
सा भर्तुर्वचनं श्रुत्वा राजपुत्री यशस्विनी
अन्विच्छन्ती महच्छ्रेयो गान्धारी वाक्यमब्रवीत्
आनयेह सुतं क्षिप्रं राज्यकामुकमातुरम्
न हि राज्यमशिष्टेन शक्यं धर्मार्थलोपिना
त्वं ह्येवात्र भृशं गर्ह्यो धृतराष्ट्र सुतप्रियः
यो जानन्पापतामस्य तत्प्रज्ञामनुवर्तसे
स एष काममन्युभ्यां प्रलब्धो मोहमास्थितः
अशक्योऽद्य त्वया राजन्विनिवर्तयितुं बलात्
राज्यप्रदाने मूढस्य बालिशस्य दुरात्मनः
दुःसहायस्य लुब्धस्य धृतराष्ट्रोऽश्नुते फलम्
कथं हि स्वजने भेदमुपेक्षेत महामतिः
भिन्नं हि स्वजनेन त्वां प्रसहिष्यन्ति शत्रवः
या हि शक्या महाराज साम्ना दानेन वा पुनः
निस्तर्तुमापदः स्वेषु दण्डं कस्तत्र पातयेत्
शासनाद्धृतराष्ट्रस्य दुर्योधनममर्षणम्
मातुश्च वचनात्क्षत्ता सभां प्रावेशयत्पुनः
स मातुर्वचनाकाङ्क्षी प्रविवेश सभां पुनः
अभिताम्रेक्षणः क्रोधान्निःश्वसन्निव पन्नगः
तं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम्
विगर्हमाणा गान्धारी समर्थं वाक्यमब्रवीत्
दुर्योधन निबोधेदं वचनं मम पुत्रक
हितं ते सानुबन्धस्य तथायत्यां सुखोदयम्
भीष्मस्य तु पितुश्चैव मम चापचितिः कृता
भवेद्द्रोणमुखानां च सुहृदां शाम्यता त्वया
न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते
अवाप्तुं रक्षितुं वापि भोक्तुं वा भरतर्षभ
न ह्यवश्येन्द्रियो राज्यमश्नीयाद्दीर्घमन्तरम्
विजितात्मा तु मेधावी स राज्यमभिपालयेत्
कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः
तौ तु शत्रू विनिर्जित्य राजा विजयते महीम्
लोकेश्वरप्रभुत्वं हि महदेतद्दुरात्मभिः
राज्यं नामेप्सितं स्थानं न शक्यमभिरक्षितुम्
इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः
इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः
अविधेयानि हीमानि व्यापादयितुमप्यलम्
अविधेया इवादान्ता हयाः पथि कुसारथिम्
अविजित्य य आत्मानममात्यान्विजिगीषते
अजितात्माजितामात्यः सोऽवशः परिहीयते
आत्मानमेव प्रथमं देशरूपेण यो जयेत्
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु
परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते
क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ
कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः