Mahabharata

Udyoga Parva, Adhyaya 124

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Udyoga Parva, Adhyaya 124, Verse 1

धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समर्थ्य तौ

दुर्योधनमिदं वाक्यमूचतुः शासनातिगम्

Mahabharata

Udyoga Parva, Adhyaya 124, Verse 2

यावत्कृष्णावसंनद्धौ यावत्तिष्ठति गाण्डिवम्

यावद्धौम्यो न सेनाग्नौ जुहोतीह द्विषद्बलम्

Mahabharata

Udyoga Parva, Adhyaya 124, Verse 3

यावन्न प्रेक्षते क्रुद्धः सेनां तव युधिष्ठिरः

ह्रीनिषेधो महेष्वासस्तावच्छाम्यतु वैशसम्

Mahabharata

Udyoga Parva, Adhyaya 124, Verse 4

यावन्न दृश्यते पार्थः स्वेष्वनीकेष्ववस्थितः

भीमसेनो महेष्वासस्तावच्छाम्यतु वैशसम्

Mahabharata

Udyoga Parva, Adhyaya 124, Verse 5

यावन्न चरते मार्गान्पृतनामभिहर्षयन्

यावन्न शातयत्याजौ शिरांसि गजयोधिनाम्

Mahabharata

Udyoga Parva, Adhyaya 124, Verse 6

गदया वीरघातिन्या फलानीव वनस्पतेः

कालेन परिपक्वानि तावच्छाम्यतु वैशसम्

Mahabharata

Udyoga Parva, Adhyaya 124, Verse 7

नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः

विराटश्च शिखण्डी च शैशुपालिश्च दंशिताः

Mahabharata

Udyoga Parva, Adhyaya 124, Verse 8

यावन्न प्रविशन्त्येते नक्रा इव महार्णवम्

कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम्

Mahabharata

Udyoga Parva, Adhyaya 124, Verse 9

यावन्न सुकुमारेषु शरीरेषु महीक्षिताम्

गार्ध्रपत्राः पतन्त्युग्रास्तावच्छाम्यतु वैशसम्

Mahabharata

Udyoga Parva, Adhyaya 124, Verse 10

चन्दनागरुदिग्धेषु हारनिष्कधरेषु च

नोरःसु यावद्योधानां महेष्वासैर्महेषवः

Mahabharata

Udyoga Parva, Adhyaya 124, Verse 11

कृतास्त्रैः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः

अभिलक्ष्यैर्निपात्यन्ते तावच्छाम्यतु वैशसम्

Mahabharata

Udyoga Parva, Adhyaya 124, Verse 12

अभिवादयमानं त्वां शिरसा राजकुञ्जरः

पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः

Mahabharata

Udyoga Parva, Adhyaya 124, Verse 13

ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः

स्कन्धे निक्षिपतां बाहुं शान्तये भरतर्षभ

Mahabharata

Udyoga Parva, Adhyaya 124, Verse 14

रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च

उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु

Mahabharata

Udyoga Parva, Adhyaya 124, Verse 15

शालस्कन्धो महाबाहुस्त्वां स्वजानो वृकोदरः

साम्नाभिवदतां चापि शान्तये भरतर्षभ

Mahabharata

Udyoga Parva, Adhyaya 124, Verse 16

अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः

मूर्ध्नि तान्समुपाघ्राय प्रेम्णाभिवद पार्थिव

Mahabharata

Udyoga Parva, Adhyaya 124, Verse 17

दृष्ट्वा त्वां पाण्डवैर्वीरैर्भ्रातृभिः सह संगतम्

यावदानन्दजाश्रूणि प्रमुञ्चन्तु नराधिपाः

Mahabharata

Udyoga Parva, Adhyaya 124, Verse 18

घुष्यतां राजधानीषु सर्वसंपन्महीक्षिताम्

पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव