Udyoga Parva, Adhyaya 123, Verse 1
ततः शांतनवो भीष्मो दुर्योधनममर्षणम्
केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षभ
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः शांतनवो भीष्मो दुर्योधनममर्षणम्
केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षभ
कृष्णेन वाक्यमुक्तोऽसि सुहृदां शममिच्छता
अनुपश्यस्व तत्तात मा मन्युवशमन्वगाः
अकृत्वा वचनं तात केशवस्य महात्मनः
श्रेयो न जातु न सुखं न कल्याणमवाप्स्यसि
धर्म्यमर्थं महाबाहुराह त्वां तात केशवः
तमर्थमभिपद्यस्व मा राजन्नीनशः प्रजाः
इमां श्रियं प्रज्वलितां भारतीं सर्वराजसु
जीवतो धृतराष्ट्रस्य दौरात्म्याद्भ्रंशयिष्यसि
आत्मानं च सहामात्यं सपुत्रपशुबान्धवम्
सहमित्रमसद्बुद्ध्या जीविताद्भ्रंशयिष्यसि
अतिक्रामन्केशवस्य तथ्यं वचनमर्थवत्
पितुश्च भरतश्रेष्ठ विदुरस्य च धीमतः
मा कुलघ्नोऽन्तपुरुषो दुर्मतिः कापथं गमः
पितरं मातरं चैव वृद्धौ शोकाय मा ददः
अथ द्रोणोऽब्रवीत्तत्र दुर्योधनमिदं वचः
अमर्षवशमापन्नं निःश्वसन्तं पुनः पुनः
धर्मार्थयुक्तं वचनमाह त्वां तात केशवः
तथा भीष्मः शांतनवस्तज्जुषस्व नराधिप
प्राज्ञौ मेधाविनौ दान्तावर्थकामौ बहुश्रुतौ
आहतुस्त्वां हितं वाक्यं तदादत्स्व परंतप
अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यदूचतुः
मा वचो लघुबुद्धीनां समास्थास्त्वं परंतप
ये त्वां प्रोत्साहयन्त्येते नैते कृत्याय कर्हिचित्
वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे
मा कुरूञ्जीघनः सर्वान्पुत्रान्भ्रातॄंस्तथैव च
वासुदेवार्जुनौ यत्र विद्ध्यजेयं बलं हि तत्
एतच्चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः
यदि नादास्यसे तात पश्चात्तप्स्यसि भारत
यथोक्तं जामदग्न्येन भूयानेव ततोऽर्जुनः
कृष्णो हि देवकीपुत्रो देवैरपि दुरुत्सहः
किं ते सुखप्रियेणेह प्रोक्तेन भरतर्षभ
एतत्ते सर्वमाख्यातं यथेच्छसि तथा कुरु
न हि त्वामुत्सहे वक्तुं भूयो भरतसत्तम
तस्मिन्वाक्यान्तरे वाक्यं क्षत्तापि विदुरोऽब्रवीत्
दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम्
दुर्योधन न शोचामि त्वामहं भरतर्षभ
इमौ तु वृद्धौ शोचामि गान्धारीं पितरं च ते
यावनाथौ चरिष्येते त्वया नाथेन दुर्हृदा
हतमित्रौ हतामात्यौ लूनपक्षाविव द्विजौ
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम्
कुलघ्नमीदृशं पापं जनयित्वा कुपूरुषम्
अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत
आसीनं भ्रातृभिः सार्धं राजभिः परिवारितम्
दुर्योधन निबोधेदं शौरिणोक्तं महात्मना
आदत्स्व शिवमत्यन्तं योगक्षेमवदव्ययम्
अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा
इष्टान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु
सुसंहितः केशवेन गच्छ तात युधिष्ठिरम्
चर स्वस्त्ययनं कृत्स्नं भारतानामनामयम्
वासुदेवेन तीर्थेन तात गच्छस्व संगमम्
कालप्राप्तमिदं मन्ये मा त्वं दुर्योधनातिगाः
शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम्
त्वदर्थमभिजल्पन्तं न तवास्त्यपराभवः