Udyoga Parva, Adhyaya 122, Verse 1
भगवन्नेवमेवैतद्यथा वदसि नारद
इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम्
Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.
भगवन्नेवमेवैतद्यथा वदसि नारद
इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम्
एवमुक्त्वा ततः कृष्णमभ्यभाषत भारत
स्वर्ग्यं लोक्यं च मामात्थ धर्म्यं न्याय्यं च केशव
न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम्
अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम
अनुनेतुं महाबाहो यतस्व पुरुषोत्तम
सुहृत्कार्यं तु सुमहत्कृतं ते स्याज्जनार्दन
ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम्
अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित्
दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम
समर्थं ते विशेषेण सानुबन्धस्य भारत
महाप्राज्ञ कुले जातः साध्वेतत्कर्तुमर्हसि
श्रुतवृत्तोपसंपन्नः सर्वैः समुदितो गुणैः
दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः
त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे
धर्मार्थयुक्ता लोकेऽस्मिन्प्रवृत्तिर्लक्ष्यते सताम्
असतां विपरीता तु लक्ष्यते भरतर्षभ
विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि
अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान्
अनेकशस्त्वन्निमित्तमयशस्यं च भारत
तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि
भ्रातॄणामथ भृत्यानां मित्राणां च परंतप
अधर्म्यादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे
प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः
संधत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ
तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः
पितामहस्य द्रोणस्य विदुरस्य महामतेः
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः
अश्वत्थाम्नो विकर्णस्य संजयस्य विशां पते
ज्ञातीनां चैव भूयिष्ठं मित्राणां च परंतप
शमे शर्म भवेत्तात सर्वस्य जगतस्तथा
ह्रीमानसि कुले जातः श्रुतवाननृशंसवान्
तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ
एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत
उत्तमापद्गतः सर्वः पितुः स्मरति शासनम्
रोचते ते पितुस्तात पाण्डवैः सह संगमः
सामात्यस्य कुरुश्रेष्ठ तत्तुभ्यं तात रोचताम्
श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते
विपाकान्ते दहत्येनं किंपाकमिव भक्षितम्
यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते
स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते
यस्तु निःश्रेयसं श्रुत्वा प्राप्तमेवाभिपद्यते
आत्मनो मतमुत्सृज्य स लोके सुखमेधते
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते
शृणोति प्रतिकूलानि द्विषतां वशमेति सः
सतां मतमतिक्रम्य योऽसतां वर्तते मते
शोचन्ते व्यसने तस्य सुहृदो नचिरादिव
मुख्यानमात्यानुत्सृज्य यो निहीनान्निषेवते
स घोरामापदं प्राप्य नोत्तारमधिगच्छति
योऽसत्सेवी वृथाचारो न श्रोता सुहृदां सदा
परान्वृणीते स्वान्द्वेष्टि तं गौः शपति भारत
स त्वं विरुध्य तैर्वीरैरन्येभ्यस्त्राणमिच्छसि
अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ
को हि शक्रसमाञ्ज्ञातीनतिक्रम्य महारथान्
अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः
जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया
न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः
मिथ्याप्रचरितास्तात जन्मप्रभृति पाण्डवाः
त्वयि सम्यङ्महाबाहो प्रतिपन्ना यशस्विनः