Udyoga Parva, Adhyaya 121, Verse 1
सद्भिरारोपितः स्वर्गं पार्थिवैर्भूरिदक्षिणैः
अभ्यनुज्ञाय दौहित्रान्ययातिर्दिवमास्थितः
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
सद्भिरारोपितः स्वर्गं पार्थिवैर्भूरिदक्षिणैः
अभ्यनुज्ञाय दौहित्रान्ययातिर्दिवमास्थितः
अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना
परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना
अचलं स्थानमारुह्य दौहित्रफलनिर्जितम्
कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया
उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः
प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिस्वनैः
अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः
अर्चितश्चोत्तमार्घेण दैवतैरभिनन्दितः
प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः
निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव
चतुष्पादस्त्वया धर्मश्चितो लोक्येन कर्मणा
अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि
पुनस्तवाद्य राजर्षे सुकृतेनेह कर्मणा
आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम्
येन त्वां नाभिजानन्ति ततोऽज्ञात्वासि पातितः
प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः
स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम्
अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम्
भगवन्संशयो मेऽस्ति कश्चित्तं छेत्तुमर्हसि
न ह्यन्यमहमर्हामि प्रष्टुं लोकपितामह
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्
अनेकक्रतुदानौघैरर्जितं मे महत्फलम्
कथं तदल्पकालेन क्षीणं येनास्मि पातितः
भगवन्वेत्थ लोकांश्च शाश्वतान्मम निर्जितान्
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्
अनेकक्रतुदानौघैर्यत्त्वयोपार्जितं फलम्
तदनेनैव दोषेण क्षीणं येनासि पातितः
अभिमानेन राजेन्द्र धिक्कृतः स्वर्गवासिभिः
नायं मानेन राजर्षे न बलेन न हिंसया
न शाठ्येन न मायाभिर्लोको भवति शाश्वतः
नावमान्यास्त्वया राजन्नवरोत्कृष्टमध्यमाः
न हि मानप्रदग्धानां कश्चिदस्ति समः क्वचित्
पतनारोहणमिदं कथयिष्यन्ति ये नराः
विषमाण्यपि ते प्राप्तास्तरिष्यन्ति न संशयः
एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना
निर्बन्धतश्चातिमात्रं गालवेन महीपते
श्रोतव्यं हितकामानां सुहृदां भूतिमिच्छताम्
न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः
तस्मात्त्वमपि गान्धारे मानं क्रोधं च वर्जय
संधत्स्व पाण्डवैर्वीर संरम्भं त्यज पार्थिव
ददाति यत्पार्थिव यत्करोति; यद्वा तपस्तप्यति यज्जुहोति
न तस्य नाशोऽस्ति न चापकर्षो; नान्यस्तदश्नाति स एव कर्ता
इदं महाख्यानमनुत्तमं मतं; बहुश्रुतानां गतरोषरागिणाम्
समीक्ष्य लोके बहुधा प्रधाविता; त्रिवर्गदृष्टिः पृथिवीमुपाश्नुते