Udyoga Parva, Adhyaya 120, Verse 1
प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुंगवः
ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुंगवः
ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः
दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः
दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत्पदा
ततो वसुमनाः पूर्वमुच्चैरुच्चारयन्वचः
ख्यातो दानपतिर्लोके व्याजहार नृपं तदा
प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हया
तदप्यथ च दास्यामि तेन संयुज्यतां भवान्
यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम्
यच्च मे फलमाधाने तेन संयुज्यतां भवान्
ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रियपुंगवः
यथा धर्मरतिर्नित्यं नित्यं युद्धपरायणः
प्राप्तवानस्मि यल्लोके क्षत्रधर्मोद्भवं यशः
वीरशब्दफलं चैव तेन संयुज्यतां भवान्
शिबिरौशीनरो धीमानुवाच मधुरां गिरम्
यथा बालेषु नारीषु वैहार्येषु तथैव च
संगरेषु निपातेषु तथापद्व्यसनेषु च
अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज
यथा प्राणांश्च राज्यं च राजन्कर्म सुखानि च
त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज
यथा सत्येन मे धर्मो यथा सत्येन पावकः
प्रीतः शक्रश्च सत्येन तेन सत्येन खं व्रज
अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः
अनेकशतयज्वानं वचनं प्राह धर्मवित्
शतशः पुण्डरीका मे गोसवाश्च चिताः प्रभो
क्रतवो वाजपेयाश्च तेषां फलमवाप्नुहि
न मे रत्नानि न धनं न तथान्ये परिच्छदाः
क्रतुष्वनुपयुक्तानि तेन सत्येन खं व्रज
यथा यथा हि जल्पन्ति दौहित्रास्तं नराधिपम्
तथा तथा वसुमतीं त्यक्त्वा राजा दिवं ययौ
एवं सर्वे समस्तास्ते राजानः सुकृतैस्तदा
ययातिं स्वर्गतो भ्रष्टं तारयामासुरञ्जसा
दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै
चतुर्षु राजवंशेषु संभूताः कुलवर्धनाः
मातामहं महाप्राज्ञं दिवमारोपयन्ति ते
राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः
दौहित्रास्ते वयं राजन्दिवमारोह पार्थिवः